________________
विशेषा. ॥७७६॥
अथ प्रकारान्तरेणाक्षेप-परिहारौ पाह
पैयणं पसत्तमेवं थाणाओ तं च नो जओ छट्ठी । इह कत्तिलक्खणेयं कत्तुरणत्यंतरं थाणं ॥ १८५६ ॥ वृहद्वृत्तिः ।
ननु ‘स्थीयतेऽस्मिन्निति स्थानम्' इत्यधिकरणसाधनोऽयं शब्दः । ततश्च सिद्धस्य स्थानं सिद्धस्थानमिति समासः । ततश्चैवं सति सिद्धस्य पतनं प्रसक्तम् , स्थानात , पर्वत-पादपायग्रस्थितदेवदत्तस्येव, फलस्येव वा । यस्य किल कापि पर्वतादाववस्थानं, तस्य कदाचित् कस्यापि पतनमपि दृश्यते; अतः सिद्धस्यापि तत् कदाचित् प्रामोतीति भावः। तच्च न, यतः 'सिद्धस्य स्थानम्' इतीयं कतरि षष्ठी । ततश्च 'सिद्धस्य स्थानम्' इति कोऽर्थः ?- सिद्धस्तिष्ठति, न तु तदर्थान्तरभूतं स्थानमस्तीति ॥१८५६ ॥
अथवा, नेहनिच्चत्तणओ वा थाणविणासपयणं न जुत्तं से । तह कम्माभावाओ पुणकियाभावओ वा वि ॥ १८५७ ॥ ER
अर्थान्तरत्वेऽपि स्थानस्य न पतनं सिद्धस्य, यतोऽस्यार्थान्तरं स्थानं नभ एव, तस्य च नित्यत्वाद् विनाशो न युक्तः, तदभावे च कुतः पतनं मुक्तस्य । कर्म चात्मनः पतनादिक्रियाकारणम् , मुक्तस्य च कर्माभावात् कुतः पतनक्रिया ?। या च समयमेकयस्थाप्यूर्व गतिक्रिया, तस्याः कारणं 'लाउ य एरंडफले' इत्यादिना दर्शितमेव । पुनःक्रिया च मुक्तस्य नास्ति, कारणाभावात् । निजप्रयत्नप्रेरणा-ऽऽकर्षण-विकर्षण-गुरुत्वादयो हि पतनकारणम् , तत्संभवश्च मुक्तस्य नास्ति, हेतोरभावात् , इति कुतोऽस्य पतनम् ? इति । १८५७॥621
किश्च, 'स्थानात् पतनम् ' इत्यनैकान्तिकमेवेति दर्शयति___ निच्चथाणाओ वा वोमाईणं पडणं पसज्जेज्जा । अह न मयमणगंतो थाणाओऽवस्स पडणं ति ॥१८५८॥
ननु च 'स्थानात् पतनम्' इति स्ववचनविरुद्धमिदम् , अस्थानादेव पतनस्य युज्यमानत्वात् । अथ स्थानादपि पतनमिष्यते, तर्हि नित्यमेव स्थानाद् व्योमादीनां पतनं प्रसज्येत । अथ न तत् तेषां मतम् , तर्हि 'स्थानात् पतनम्' इत्यनैकान्तिकमेवेति ॥१८५८॥ __ अथान्येन प्रकारेण प्रेर्यमाशङ्कय परिहरनाह
१ पतनं प्रसक्तमेवं स्थानात् तच्च नो यतः षष्टी । इह कर्नुलक्षणेयं कर्तुरनन्तरं स्थानम् ॥ १८५६।। २ नभोनिस्यत्वतो वा स्थानविनाशपतनं न युक्तं तस्य । तथा कर्माभावात् पुनःक्रियाभावतो वापि ॥ १४५०॥ । पृ. ७७२ । ४ नित्यस्थानाद् वा व्योमादीनां पतनं प्रसज्येत । अथ न मतमनेकान्तः स्थानावश्यं पतनमिति ॥ १८५८ ॥
७७६॥