SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ विशेषा० ||६८४॥ Jain Education internati अत्थमिए आइच्चे चंदे संतासु अग्गि वायासु । किंजोइरयं पुरिसो अप्पज्जोइ त्ति निद्दि ॥ १५९८ ॥ 'बुद्धी 'ति स्याद् बुद्धिः प्रेरकस्य - एवमपि - 'से भवइ भूएहिंतो' इत्यादिना युष्मद्व्याख्यानप्रकारेणापीत्यर्थः, पृथिव्यादिभूतधर्म एव ज्ञानं भूतस्वभावात्मकमेव ज्ञानमिति भावः । कुतः ? इत्याह- 'तभावभाव त्ति' "एतेभ्यो भूतेभ्यः समुत्थाय तान्येबानु विनश्यति" इति वचनाद् भूतसद्भावे ज्ञानस्य भावात् तदभावे चाभावादित्यर्थः यस्य च भाव एव यद् भवति, अभावे च न भवति तत् तस्यैव धर्मः, यथा चन्द्रमसचन्द्रिका, तथा च ज्ञानमनुविदधाति भूतान्वयव्यतिरेकौ तस्मात् तद् भूतधर्म एव । तदयुक्तम्, विशिष्टमेव हि नीलपीतादिभूतग्राहकं ज्ञानं तदन्यय- व्यतिरेकावनुविदधाति न तु सामान्यं ज्ञानमात्रम्, यस्माद् भूताभावेऽपि वेदलक्षणे समये सिद्धान्ते 'सामान्यज्ञानं भणितमेव' इति शेषः । केन वाक्येन ? इत्याह- 'अत्थमिए इत्यादि' अस्तमिते आदित्ये, याज्ञवल्क्यः, चन्द्रमस्यस्तमिते, शान्तेऽग्नौ, शान्तायां वाचि, किंज्योतिरेवायं पुरुषः, आत्मज्योतिः सम्राडिति होवाच, ज्योतिरिति ज्ञानमाह । आदित्यास्तमयादौ किं ज्योतिः ? इत्याह- 'अयं पुरुष इति, पुरुष आत्मेत्यर्थः । अयं च कथंभूतः ? इत्याह- 'अप्पज्जोइ ति' आत्मैव ज्योतिरस्य सोऽयमात्मज्योतिर्ज्ञानात्मक इति हृदयम्, निर्दिष्टो वेदविद्भिः कथितः, ततो न ज्ञानं भूतधर्म इति स्थितम् ।। १५९७।१५९८।। इतथ न ज्ञानं भूतधर्मः । कुतः ? इत्याह- तदभावे भावाओ भावे चाभावओ न तद्धम्मो । जह घडभावाभावे विवज्जयाओ पडो भिन्नो || १५९९॥ न भूतधर्मो ज्ञानम्, मुक्त्यवस्थायां भूताभावेऽपि भावात्, मृतशरीरादौ तद्भावेऽपि चाभावात् यथा घटस्य धर्मः पटो न भवति, किन्तु तस्माद् भिन्न एव । कुतः ? इत्याह- घटभावाभावे विपर्ययात्- घटभावेऽप्यभावात्, तदभावेऽपि च भावादित्यर्थः।। १५९९ ।। तदेवं केषांचिद् वेदपदानामर्थं व्याख्याय सांप्रतमुपसंहरन्, सर्वेषां च वेदपदानां संक्षेपतोऽर्थमुपदर्शयन्नाह - ऐसि वेयपयाणं न तत्थं वियसि अहव सव्वेसिं । अत्थो किं होज्ज सुई विण्णाणं वत्थुभेओ वा ॥१६०० ॥ १ अस्तमित आदित्ये चन्द्रे शान्तयोरनि बाचोः । किंज्योतिरयं पुरुष आत्मज्योतिरिति निर्दिष्टः ॥ १५९८ ॥ २ गाथा १५९३ । ३ तदभावे भावाद् भावे चाभावतो न तद्धर्मः । यथा घटभावाभावे विपर्ययात् पटो भिन्नः ॥ १५९९ ॥ ४क.ग. 'मुक्ताव' ५ घ.ज. शैयंथा'। ६ एषां वेदपदानां न त्वमर्थं वेत्सि, अथवा सर्वेषाम् । अर्थः किं भवेत् श्रुतिर्विज्ञानं वस्तुभेदो वा ॥ १६०० ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥६८४ ॥ www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy