________________
विशेषा.
दृत्तिः ।
॥६८५||
जाई दव्वं किरिया गुणोऽहवा संसओ तवाजुत्तो । अयमेवेति नवायं न वाधरो जओ जुत्तो ॥१६०१॥ सव्वं चिय सव्वमयं स-परपज्जायओ जओ निययं । सव्वमसव्वमयं पि य विवित्तरूवं विवक्खाओ॥१६०२॥ सामण्ण-विसेसमओ तेण पयत्थो विवक्खया जुत्तो । वत्थुस्स विस्सरूवो पज्जायावेक्खया सव्वो ॥१६०३।
तस्मादेषां पूर्वोक्तानां वेदपदानां यथा मया व्याख्यातोऽर्थस्तथा त्वं न वत्सि, तेन जीवे संशयं करोषि । अथवा, सर्वेषामप्यशेषवेदपदानामर्थ त्वं न जानासि, यस्मात् सर्वेष्वपि वेदपदेषु विषये तवैवंभूतः संशयोऽस्तीति संवन्धः । कथंभूतः ? इत्याह- 'अत्थो किं होज्ज सुईत्यादि' किमतेषां वेदपदानामर्थः श्रुतिः शब्दो भवेत् , यथा भेरी-पटह-ढकादीनां शब्दस्य शब्द एवार्थः; अथवा, यद् घटादिशब्दे समुच्चारिते तदभिधेयार्थविषयं विज्ञानं भवद् दृश्यते, तत् तेषामर्थः ?; किंवा घटशब्दे समुत्कीर्तिते 'पुथुतुनोदराद्याकारवान् घटलक्षणोऽर्थोऽनेनोक्तः, न तु पटादिः' इत्येवं यो वस्तुभेदः प्रतीयते स एषामर्थः ?; यदिवा, कि जातिरमीषामर्थः, यथा गोशब्दे समुच्चारिते गोजातिरवसीयते?; यदिवा, किं द्रव्यमेषामर्थः, यथा दण्डीत्यादिषु दण्डादिमद् द्रव्यम्; किंवा धावतीत्यादीनामिव धावनादिक्रियाऽमीषामर्थः?; अथवा, किं शुक्लादीनामिव शुक्लादिगुण एतेषामर्थः ? इति । अयं च संशयस्तवायुक्तः, यस्मात् 'अयमेव, नैव वाऽयम्' इत्येवं कस्यापि वस्तुनो धर्मोऽवधारयितुं न युक्तः । शब्दोऽपि वस्तुविशेष एव, ततः 'एवंभूतस्यैवार्थस्यायमभिधायकः, नैव वेत्थंभूतस्यार्थस्यायं प्रतिपादकः' इत्येवमेतद्धर्मस्याप्यवधारणमयुक्तमेव । कुतः ? इत्याह- 'सव्वं चियेत्यादि' यस्मात् सर्वमपि वाच्यवाचकादिकं वस्तु नियतं निश्चितं स्व-परपर्यायैः सर्वात्मकमेव सामान्यविवक्षयेत्यर्थः । तथा, सर्वमसर्वमयमप्यस्ति विविक्तरूपं सर्वतो व्यावृत्तम् । कया? इत्याह-विवक्षया, केवलस्वपर्यायापेक्षयेत्यर्थः, विशेषविषययेति तात्पर्यार्थः । तस्मात् सर्वेषामपि पदानां विवक्षावशतः सामान्यमयो विशेषमयश्च पदार्थो युक्तः, न पुनरेकान्तेनेत्थंभूत एव, अनित्थंभूत एव वेति । कुतः ? इत्याह- 'वत्थुस्सेत्यादि' यस्मात् सर्वोऽपि वाच्यस्य वाचकस्य वा वस्तुनः स्वभावः पर्यायापेक्षया विश्वरूपो नानाविधो वर्तते । ततश्च सामान्यविवक्षया घटशब्दः सर्वात्मकत्वात् सर्वेषामपि द्रव्य-गुण-क्रियाअर्थानां वाचकः, विशेषविवक्षया तु प्रतिनियतरूपत्वाद् य एवास्येह पृथुबुनोदराद्याका
, जातिव्य क्रिया गुणोऽथवा संशयस्तवायुक्तः । अयमेवेति नवार्य न वस्तुधर्मो यतो युक्तः ॥१६०१॥
सर्वमेव सर्वमयं स्व-परपर्यायतो यतो नियतम् । सर्वमसर्वमयमपि च विविक्तरूपं विवक्षया ॥ १६०२ ।। सामान्य-विशेषमयस्तेन पदार्थो विवक्षया युक्तः । वस्तुनो विश्वरूपः पर्यायापेक्षया सर्वः ॥ १६०३ ॥ २ क.ग. 'ज्ञानभवनं ।
E
६८५।।
Education
For Personal and Private Use Only