________________
विशेषा०
||६८६॥
Jain Educationa Internation
रवानर्थो वाच्यतया रूढस्तस्यैव वाचकः । एवमन्योऽपि शब्दो विशेषविवक्षया या यत्र देशादौ यस्यार्थस्य वाचकतया रूढः स तस्य वाचको द्रष्टव्यः । सामान्यविवक्षया तु 'सर्वः सर्वस्य वाचकः, सर्व च सर्वस्य वाच्यम्' इत्यनया दिशा सकलं स्वधिया भावनीयमिति ।
तदेवं तेन त्रिजगत्स्वरूपवेदिना भगवता श्रीमन्महावीरेण निःशेषपरमबोधनोपायकुशलतया तीक्ष्णपरशुनेव निपुणयुक्तिप्रबन्धेन गुपलवल्ली वितान इव मूलाच्छिन्नः समस्तोऽपि तस्य तत्समासन्न परमकल्याणस्येन्द्रभूतेः संशयः || १६०० || १६०१ ।। १६०२।।१६०३।।
तस्मिंश्च च्छित्रे किमसौ कृतवान् ? इत्याह
'छिन्नम्म संसयम्मि जिणेण जर मरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं ॥ १६० ॥ सुबोधा, नवरं श्राम्यतीति भ्रमणः सन्नसौ पापाद् व्रजितः प्रव्रजितो भागवती दीक्षां प्रतिपन्न इत्यर्थः । 'संयतः संयतो भवति नासंयत:' इति निश्चयनयमताश्रयणाच्चेत्थमुक्तमितीह भावार्थ: । खण्डिकास्तच्छात्रा इति ।। १६०४ ॥
अथ वक्ष्यमाणेषु कर्मादिषु दशसु वादस्थानेषु यदिह तुल्यं तद् ग्रन्थलाघवार्थमतिदिशन्नाह
ऐवं कम्माईसु विजं सामण्णं तयं समाउज्जं । जो पुण जत्थ विसेसो समासओ तं पवक्खामि ॥१६०५ ॥ 1 एवं यदिहात्मवादप्रक्रमे प्रत्यक्षानुमानाऽऽगमप्रमाणवक्तव्यतादिकं वक्ष्यमाणकर्मादिवादस्थानकैः किमपि तुल्यं तत् स्वधिया तत्र तत्रायोजनीयम् । यस्तु यत्र वादस्थानके विशेषस्तं तत्र संक्षेपतः स्वयमेव वक्ष्यामि ।। इति सप्तपञ्चाशद्वाथार्थः ।। १६०५ ।। ॥ इति प्रथमगणधरवादः समाप्तः ॥
अथ द्वितीयगणधर वक्तव्यतामभिधित्सुराह
*तं पव्वइअं सोउं बीओ आगच्छइ अमरिसेणं । वच्चामि णमाणेमी पराजिणित्ता ण तं समणं || १६०६॥
१ छिन्ने संशये जिनेन जरा-मरणविप्रमुक्तेन । स श्रमणः प्रब्रजितः पञ्चभिः सह खण्डिकशतैः ॥ १६०४ ॥
२ एवं कर्मादिष्वपि यत् सामान्यं तत् समायोज्यम् । यः पुनर्यन्त्र विशेषः समासतस्तं प्रवक्ष्यामि || १६०५ ॥ तं प्रत्रजितं श्रुत्वा द्वितीय आगच्छत्यमर्षेण । ब्रजाम्यानयामि पराजित्य तं श्रमणम् ॥ १६०६ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
||६८६ ॥
: www.jainelibrary.org