________________
बृहदत्तिः ।
विशेषा० ॥६८७॥
तमिन्द्रभूति प्रव्रजितं श्रुत्वा द्वितीयोऽग्निभूतिनामा तत्सोदर्यबन्धुरत्रान्तरेऽपर्षेणाकुलितचेताः समागच्छति भगवत्समीपम् । केनाभिप्रायेण ? इत्याह-व्रजामि । 'ण' इति वाक्यालङ्कारे । आनयामि निजभ्रान्तरमिन्द्रभृति 'ततः' इति गम्यते । 'ण' इत्ययमपि वाक्यालङ्कारे । तं श्रमणमिन्द्रजालिकं कमपि पराजित्येति ॥ १६०६ ॥
पुनरपि किं चिन्तयन्नसावागतः १ इत्याह
छलिओ छलाइणा सो मण्णे माइंदजालिओ वा वि । को जाणइ कह वत्तं एत्ताहे वट्टमाणी से ॥१६०७॥
दुर्जयत्रिभुवनस्यापि मद्भातेन्द्रभूतिः, केवलमहमिदं मन्ये- छलादिना छलितोऽसौ तेन धूर्तेन- च्छल-जाति-निग्रहस्थानग्रहणनिपुणेन तेन केनापि दुष्टेन भ्रमितो मद्वन्धुरित्यर्थः । अथवा, मायेन्द्रजालिकः कोऽपि निश्चितमसौ, येन तस्यापि जगद्गुरोमद्भातुभ्रमितं चेतः । तस्मात् किंबहुना, को जानाति तद्वादस्थानकं तयोस्तत्र कथमपि वृत्तम् , मत्परोक्षत्वात् । इत ऊर्ध्व पुनर्मयि तत्र गते तस्य तदिन्द्रजालव्यतिकरभ्रमितमानसखचर-नरा-ऽमरवातवन्दनमात्रबृंहितचेतसः श्रमणकस्य 'वट्टमाणि त्ति' या काचिद् वार्ता वर्तनी वा भविष्यति तां द्रक्ष्यत्ययं समग्रोऽपि लोक इति ॥ १६०७ ॥
किं च तेन तत्र गच्छता प्रोक्तम् ? इत्याह
सो पक्खंतरमेगं पि जाइ जइ मे तओ मि तस्सेव । सीसत्तं होज गओ वोत्तुं पत्तो जिणसगासे ॥१६०८॥
को जानाति तावदिन्द्रभूतिस्तेन कथमपि तत्र निर्जितः ? । मम पुनरप्येकमपि पक्षान्तरं पक्षविशेष स यदि यात्यवबुध्यतेमद्विहितस्य सहेतू-दाहरणस्य पक्षविशेषस्य स यदुत्तरप्रदानेन कथमपि पारं गच्छतीति हृदयम् , ततो 'मि' इति वाक्यालङ्कारे, तस्यैव श्रमणस्य शिष्यत्वेन गतोऽहं भवेयमिति निश्चयः । तत इत्यादि वाग्गजि कृत्वा जिनस्य श्रीमन्महावीरस्यान्तिकं प्राप्त इति ॥१६०८॥ ततः किम् ? इत्याहआभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसी णं ॥१६०९॥
छलितश्छलादिना स मन्ये मायेन्द्रजालिको वापि । को जानाति कथं वृत्तमेतस्माद् वर्तमाना तस्य ॥ १६॥ २ स पक्षान्तरमेकमपि याति यदि मे ततस्तस्यैव । शिष्यत्वं भवेयं गत उक्त्वा प्राप्तो जिनसकाशे ॥ १६०८॥ ३ आभाषितच जिनेन जाति-जरा-मरणविप्रमुक्तेन । नाम्ना च गोत्रेण च सर्वज्ञेन सर्वदर्शिना ॥ १६०९॥
॥६८७||
Jan Education Internate
For
and
P
U
Only
www.jaineltrary.org