SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ विशेषा० ||६८८|| Jain Education Internation आभाषितश्च संलप्त जाति-जरा-मरणविप्रमुक्तेन सर्वज्ञेन सर्वदर्शिना च जिनेन । कथम् ? नाम्ना च- हे अग्निभूते !, गोत्रेण च - हे गौतमसगोत्र ! इति । इत्थं च नाम- गोत्राभ्यां संलप्तस्य तस्य चिन्ताऽभूत्- अहो ! नामापि मम विजानाति, अथवा, जगत्प्रसिद्धोऽहम् कः किल मां न वेत्ति १ । यदि हि मे हृतं संशयं ज्ञास्यति, अपनेष्यति वा, तदा भवेद् मम विस्मयः ।। १६०९ ।। इति चिन्तयति तस्मिन् भगवानाह - 'किं मन्ने अत्थि कम्मं उयाहु न त्थि त्ति संसयो तुज्झं । वेयपयाण य अत्थं न याणसि तेसिमो अत्थो ॥ १६१० ॥ हे अग्निभूते ! गौतम ! त्वमेतद् मन्यसे चिन्तयसि यदुत - क्रियते मिथ्यात्वादिहेतुसमन्वितेन जीवेनेति कर्म ज्ञानावरणादिकम्, तत् किमस्ति नास्ति वा ? इति । नन्वयमनुचितस्तव संशयः । अयं हि भवतो विरुद्धवेदपदनिबन्धनो वर्तते, तेषां च वेदपदानां स्वमर्थं न जानासि तेन संशयं करोषि । तेषां च वेदपदानामयं वक्ष्यमाणलक्षणोऽर्थ इति ।। १६१० ॥ अत्र भाष्यम् -- म्मे तुह संदेहो मन्नसि तं नाणगोयराईयं । तुह तमणुमाणसाहणमणुभूइमयं फलं जस्स ॥ १६११ ॥ हे आयुष्मन्ननिभूते ! ज्ञानावरणादिपरमाणु संघातरूपे कर्मणि तव संदेहः, यतः प्रत्यक्षानुमानादिसमस्तप्रमाणात्मकज्ञानगोचरातीतमेव तत् त्वं मन्यसे, तथाहि न तावत् प्रत्यक्षं कर्म, अतीन्द्रियत्वात् खरविषाणवत्, इत्यादि प्रमाणविषयातीतत्वं प्रावज्जीवस्येव कर्मणोऽपि समानप्रायत्वाद् भावनीयमिति । तदेतत् सौम्य ! मा स्थास्त्वम्, यतो मम तावत् प्रत्यक्षमेव कर्म, तवाप्यनुमानं साधनं यस्य तदनुमानसाधनं वर्तते तत् कर्म, न पुनः सर्वप्रमाणगोचरातीतम् । यस्य किम् ? इत्याह- 'अणुभूइमयं फलं जस्स ति' सुख-दुःखानामनुभूतिरनुभवनं तन्मयं तदात्मकं फलं यस्य शुभाशुभकर्मण इति । अनेन चेदमनुमानं सूचितम् अस्ति सुख-दु:खानुभवस्य हेतु:, कार्यत्वात् अङ्कुरस्येवेति । अथ यदि भवतः प्रत्यक्षं कर्म, तर्हि ममापि तत्प्रत्यक्षं कस्माद् न भवति ? इति चेत् । तदयुक्तम्, न हि यदेकस्य कस्यचित् प्रत्यक्षं तेनापरस्यापि प्रत्यक्षेण भवितव्यम् । न हि सिंह-सरभ-हंसादयः सर्वस्यापि लोकस्य प्रत्यक्षाः, न च ते न सन्ति बालादीना - १ किं मन्यसेऽस्ति कर्म उताहो नास्तीति संशयस्तव । वेदपदानां चार्थे न जानासि तेषामयमर्थः ॥ १६१० ॥ २ कर्मणि तव संदेहो मन्यसे तज्ज्ञानगोचरातीतम् । तव तदनुमानसाधनमनुभूतिमयं फलं यस्य ।। १६११ । For Personal and Private Use Only वृद्वृत्तिः । ||६८८|| www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy