SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ विशेषा० ||६८९ ।। Jain Educationa Internationa मपि तत्सर्वस्य प्रसिद्धत्वात् । तस्मादस्ति कर्म, सर्वज्ञत्वेन मया प्रत्यक्षीकृतत्वात् भवत्संशयविज्ञानवदिति । न च वक्तव्यम् - त्वयि सर्वज्ञत्वमस्मान् प्रत्यसिद्धम् 'केह सव्वण्णु त्ति मई जेणाहं सव्वसंसयच्छेई, पुच्छसु व जं न याणसि' इत्यादिना प्रागेव प्रतिविहितत्वात् । कार्यप्रत्यक्षतया भवतोऽपि च प्रत्यक्षमेव कर्म, यथा घटादिकार्यप्रत्यक्षतया परमाणव इति ।। १६११ ।। यदुक्तम्- 'तुह तमणुमाणसाहणं' इति, तदेवानुमानमाह अथ सुह दुक्खऊ कज्जाओ बीयमंकुररसेव । सो दिट्ठो चैव मई वभिचाराओ न तं जुतं ॥ १६१२॥ जो तुलसाहणाणं फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व्व, हेऊ य सो कम्मं ॥ १६१३ ॥ प्रतिप्राणि प्रसिद्धयोः सुख-दुःखयोर्हेतुरस्ति, कार्यत्वात्, अङ्कुरस्येव वीजमिति । यश्चेह सुख-दुःखयोर्हेतुस्तत् कर्मैव इत्यस्ति तदिति । स्याद् मतिः- स्रक्- चन्दना ङ्गनादयः सुखस्य हेतवः, दुःखस्य त्वहि-विष कण्टकादयः, इति दृष्ट एव सुख-दुःखयोर्हेतुरस्ति, किमदृष्टस्य कर्मणस्तद्धेतुत्वकल्पनेन ? । न हि दृष्टपरिहारेणादृष्टकल्पना संगतत्वमावहति, अतिप्रसङ्गात् । तदयुक्तम्, व्यभिचारात्, तथाहि - 'जो तुल्लेत्यादि' इह यस्तुल्यसाधनयोरिष्टशब्दादिविषयसुख साधनसमेत योर निष्टार्थसाधनसंयुक्तयोश्च द्वयोर्बहूनां वा फले सुखदुःखानुभवनलक्षणे विशेषस्तारतम्यरूपो दृश्यते, नासावदृष्टं कमपि हेतुमन्तरेणोपपद्यते, कार्यत्वात्, घटवत् । यश्च तत्र विशेषाधायकोSeष्टस्तद् गौतम ! कर्मेति प्रतिपद्यस्येति ।। १६१२ ।। १६१३ ।। अनुमानान्तरमपि कर्मसाधनायाह बौलसरीरं देहंतरपुत्रं इंदियाइमत्ताओ । जह बालदेहपुव्वो जुवदेहो, पुव्त्रमिह कम्मं ॥ १६१४ || शरीरान्तरपूर्व कमाद्यं बालशरीरम् इन्द्रियादिमच्चात्, युवशरीरवदिति, आदिशब्दात् सुख-दुःखित्व-प्राणा-पान- निमेषोमेष - जीवनादिमत्वादयोऽपि हेतवो ग्राह्याः । न च जन्मान्तरातीतशरीरपूर्वकमेवेदमिति शक्यते वक्तुम्, तस्यापान्तरालगतावसत्त्वेन तत्पूर्वकत्वानुपपत्तेः । न चाशरीरिणो नियतगर्भ-देश- स्थानप्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामक कारणाभावात् । नापि स्वभावो १ गाथा १५७९ । २ घ.ज. 'च्छेदी' । ३ अस्ति सुख-दुःखहेतुः कार्या (यत्वात् ) बीजमङ्करस्येव । स दृष्ट एवं मतिर्व्यभिचाराद् न तद् युक्तम् ।।१६१२॥ यस्तुल्यसाधनयो: फले विशेषो न स विना हेतुम् । कार्यस्वतो गौतम ! घट इव हेतुश्च स कर्म ।। १६१३ ।। ४ बालशरीरं देहान्तरपूर्व कमिन्द्रियादिमत्वात् । यथा बालदेहपूर्वी युवदेहः, पूर्वमिह कर्म ॥। १६९४ ॥ 6'9 For Personal and Private Use Only बृहद्वृत्तिः । ||६८९ ॥ www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy