SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद्वृत्तिः । Baral सयररच्या नियामकः, तस्य निराकरिष्यमाणत्वात् । यच्चेह बालशरीरस्य पूर्व शरीरान्तरं तत् 'कर्म' इति मन्तव्यम्- कार्मणं शरीरमित्यर्थः, "जोएण कम्मएणं आहारेई अणंतरं जीवो" इत्यादिवचनादिति ॥ १६१४ ॥ अनुमानान्तरमपि तत्सिद्धये पाह-- किरियाफलभावाओ दाणाईणं फलं किसीए ब्व । तं चिय दाणाइफलं मणप्पसायाई जइ बुद्धी ॥१६१५॥ किरियासामण्णाओ जं फलमस्सावि तं मयं कम्मं । तस्स परिणामरूवं सुह-दुक्खफलं जओ भुजो॥१६१६॥ 'दाणाईणं फलं ति' इह दानादिक्रियाणां फलमस्ति 'किरियाफलभावाउ त्ति' सचेतनारब्धक्रियाणां फलभावात् फलभाव दर्शनादित्यर्थः, यथा कृषिक्रियायाः । इह या चेतनारब्धक्रिया तस्याः फलं दृष्टम् , यथा कुष्यादिक्रियायाः, चेतनारब्धाश्च दानादिक्रियाः, तस्मात् फलवत्यः, यच्च तासां फलं तत् कर्म । या तु निष्फला क्रिया सा सचेतनारब्धापि न भवति, यथा परपावादिक्रिया, सचेतनारन्धाश्च दानादिक्रियाः, तस्मात् फलवत्यः। स्यादेतत् , अनैकान्तिकोऽयं हेतुः, चेतनारन्धानामपि कासांचित् कृष्यादिक्रियाणां निष्फलत्वदर्शनात् । तदयुक्तम् , फलवचाभिप्रायेणैव तदारम्भात् । यच कचिद् निष्फलत्वमपि दृश्यते तत्सम्यग्ज्ञानाद्यभावेन सामग्रीवैकल्याद् द्रष्टव्यम् , मनःशुद्ध्यादिसामग्रीविकलतया दानादिक्रिया अपि निष्फला इष्यन्त एवेत्यदोषः। यदि चात्र परस्यैवभूता बुद्धिः स्यात् । कथंभूता? इत्याह- 'तं चियेत्यादि' तदेव दानादिक्रियाणां फलं यदस्मादृशामपि | प्रत्यक्षं मनःप्रसादादि । इदमुक्तं भवति- कृष्यादिक्रिया दृष्टधान्याद्यवाप्तिफला दृष्टाः, अतो दानादिक्रियाणामपि दृष्टमेव मनःप्रसादादिकं फलं भविष्यति, किमदृष्टकर्मलक्षणफलसाधनेन ?। तत इष्टविरुद्धसाधनाद् विरुद्धोऽयं हेतुः । तत्र वयं ब्रूमः- 'किरियासामण्णाओ इत्यादि' अस्यापि मनःप्रसादस्य यत् फलं तद् मम कर्म संमतम् । ननु मनःप्रसादस्यापि कथं फलमभिधीयते ? इत्याह-किरियासामण्णाउ ति' इदमुक्तं भवति- मनःप्रसादोऽपि क्रियारूप एव, ततश्च यथा दान-कृष्यादिकाः क्रियाः फलवत्यः, तथा क्रियासाम्याद् मनःप्रसादस्यापि फलेन भवितव्यमेव, यच्च तस्य फलं तत् कमैंव, इति न कश्चिद् व्यभिचारः । यतः कर्मणः सकाशात् , किम् ? इत्याह- 'सुह-दुक्खफलं जउ त्ति' सुख-दुःखरूपं फलं सुख-दुःखफलं यतो यस्मात् कर्मणः |, योगेन कर्मकेणाहरत्यनन्तरं जीवः । २ क्रियाफळभावाद् दानादीनां फलं कृषरिव । तदेव दानादिफलं मनःप्रसादादि यदि बुद्धिः ॥ १६१५ ॥ क्रियासामान्याद् यत्फलमस्यापि तद् मतं कर्म । तस्य परिणामरूपं सुख-दुःखफलं यतो भूयः ।। १६१६॥ ३ घ.ज. 'त्र' ||६९०॥ सखारासस Jan Education a l Forson and Private Use Only
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy