SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सम ज्ञानपर्यायेण । ततः किम् ? इत्याशङ्कय 'तान्येवानु विनश्यति' इत्यस्यार्थमाह- 'ताई चियेत्यादि' तान्येव ज्ञानालम्बनभूतानि घटादिविशेषाभूतानि क्रमशः कालक्रमेण व्यवधान-स्थगना-ऽन्यमनस्कत्वादिनार्थान्तरोपयोगे सति विज्ञेयभावेन ज्ञानविषयभावेन विनाशमश्नुवानानि, अनु- पश्चात् तद्बोधपर्यायण, स विज्ञानघनो विनश्यतीति संबन्धः। ज्ञानपर्यायेण घटादिभ्यो ज्ञेयभूतेभ्यो जीवः समुत्थाय कालक्रमाद् ॥६८३॥ व्यवधानादिनार्थान्तरोपयोगे सति ज्ञेयभावेन तान्येव विनाशमश्नुवानान्यनु विनश्यतीति तात्पर्यार्थः ॥१५९३॥१५९४॥ किमित्थं सर्वथाऽयमात्मा विनश्यति ? । न, इत्याहपुव्वावरविण्णाणोवओगओ विगम-संभवसहावो । विण्णाणसंतईए विण्णाणघणोऽयमविणासी ॥ १५९५ ॥ एक एवायमात्मा त्रिस्वभावः । कथम् ? इत्युच्यते- अर्थान्तरोपयोगकाले पूर्व विज्ञानोपयोगेन तावदयं विगमस्वभावो विनश्वररूपः, अपरविज्ञानोपयोगतस्तु संभवस्वभाव उत्पादस्वरूपः, अनादिकालप्रवृत्तसामान्यविज्ञानमात्रसंतत्या पुनरयं विज्ञानघनो जीवो विनष्ट एवावतिष्ठते । एवमन्यदपि सर्व वस्तूत्पाद-व्यय-ध्रौव्यस्वभावमेवावगन्तव्यम् , न पुनः किमपि सर्वथोत्पद्यते, विनश्यति | चेति ॥१५९५॥ 'न प्रेत्यसंज्ञास्ति' इत्येतद् व्याचिख्यासुराह__ ने च पेच्चनाणसण्णावतिट्ठए संपओवओगाओ। विण्णाणघणाभिक्खो जीवोऽयं वेयपयभिहिओ ॥१५९६॥ न च प्रेत्येति- न चान्यवस्तूपयोगकाले प्राक्तनी ज्ञानसंज्ञास्ति । कुतः १ सांप्रतवस्तुविषयोपयोगात् । इदमुक्तं भवति- यदा घटोपयोगनिवृत्तौ पटोपयोग उत्पद्यते, तदा षोपयोगसंज्ञा नास्ति, तदुपयोगस्य निवृत्तत्वात् । किन्तु पटोपयोगसंवास्ति, तदुपयो- | गस्यैव तदानीमुत्पन्नत्वात् । तस्माद् विज्ञानघनाभिख्यो वेदपदेष्वभिहितोऽयं जीवः । ततो गौतम ! प्रतिपद्यस्खैनमिति ॥ १५९६ ॥ पुनरपीह प्रेर्यमाशङ्कय परिहरन्नाहएवं पि भूयधम्मो नाणं तब्भावभावओ बुद्धी । तं नो तदभावम्मि वि जं नाणं वेयसमयम्मि ॥ १५९७ ॥ ६८३॥ १ पूर्वा-ऽपरविज्ञानोपयोगतो विगम-संभवस्वभावः । विज्ञानसंतल्या विज्ञानघनोऽयमविनाशी ॥ १५९५ ॥ न च प्रेत्यज्ञानसंज्ञाऽवतिष्ठते सांप्रतोपयोगात् । विज्ञानघनाभिख्यो जीवोऽयं वेदपदाभिहितः ॥ १५९६ ॥ ३ एवमपि भूतधर्मो ज्ञानं तद्भावभावतो बुद्धिः । तद् न तदभावेऽपि यज्ज्ञानं वेदसमये ॥ १५९७ ॥ in Education International For Personal and Pre Ube Only www.ncbaryo
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy