________________
विशेषा
॥६८२॥
गोयम ! पयत्थमेवं मन्नंतो नत्थि मन्नसे जीवं । वकंतरेसु य पुणो भणिओ जीवो जमथि त्ति ॥१५९१॥
अग्गिहवणाइकिरियाफलं च तो संसयं कुणसि जीवे । मा कुरु न पयत्थोऽयं इमं पयत्थं निसामेहि॥ १५९२ ॥
गौतम ! अस्य वाक्यस्य दर्शितरूपमेव पदार्थ मन्यमानस्त्वं 'नास्ति' इत्येवं जीवं मन्यसे । यस्माच पुनः “न ह वै सशरीरस्य प्रिया-ऽप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रिया-ऽप्रिये न स्पृशतः” इत्यादिषु वेदवाक्यान्तरेषु 'अस्ति' इत्येवं जीवो भणितः प्रतिपादितः । तथा “अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादिवचनादग्निहवनादिक्रियायाः फलं च पारभविकं श्रूयते । न चेदं भवान्तरयायिनमात्मानमन्तरेणोपपद्यते । अतः 'किं जीवोऽस्ति नास्ति वा ?' इत्येवं संशयं जीवे करोषि त्वम् । तदमु मा कृथाः, यस्माद् "विज्ञानघन एव०" इत्यादिवाक्यस्य नायमर्थो यं भवानध्यवस्यति, किन्त्वमुं वक्ष्यमाणं पदार्थमिह निशमयाऽऽकर्णयेति ॥१५९१॥ ॥१५९२ ॥
तमेव दर्शयति*विण्णाणाओऽणण्णोविण्णाणघण्णोत्ति सव्वओवावि । स भवइ भूएहिंतो घडविण्णाणाइभावेण ॥१५९३॥
ताई चिय भूयाइं सोऽणु विणस्सइ विणस्समाणाइं । अत्थंतरोवओगे कमसो विष्णेयभावेणं ॥ १५९४ ॥
इह विज्ञानघनो जीव उच्यते । कथम् ? इति चेत् । उच्यते- विशिष्ट ज्ञानं विज्ञानं ज्ञान-दर्शनोपयोग इत्यर्थः, तेन विज्ञानेन सहानन्यभूतत्वादेकतया घनत्वं निविडत्वमापनो विज्ञानघनो जीवः, यदिवा 'सचओवावि त्ति' सर्वतः प्रतिप्रदेशमनन्तानन्तविज्ञानपर्यायसङ्घातघटितत्वाद् विज्ञानघनो जीवः । एवकारेण तु विज्ञानघन एवासौ, न तु नैयायिकादीनामिव 'स्वरूपेण निर्विज्ञानत्वाज्जडोऽसौ, बुद्धिस्तु तत्र समवेतैव' इति नियम्यते । स भवति- उद्यत इति क्रिया । केभ्यः ? इत्याह- 'भूएहितो त्ति' भूतानीह घट-पटादिज्ञेयवस्तुरूपाण्यभिप्रेतानि, तेभ्यो ज्ञेयभावेन परिणतेभ्यः । केन भवति ? इत्याह- 'घटोऽयम्' 'पटोऽयम्' इत्यादिविज्ञानभावेन घटादि
, गौतम ! पदार्थ एवं मन्यमानो नास्ति मन्यसे जीवम् । वाक्यान्तरेषु च पुनणितो जीवो यदस्तीति ।। १५९१ ॥
अमिहवनादिक्रियाफलं च ततः संशयं करोषि जीवे । मा कुरु न पदार्थोऽयमिमं पदार्थ निशमय ॥ १५९२ ॥ २ विज्ञानादनम्यो विज्ञानघन हति सर्वतोव्यापी । स भवति भूतेभ्यो घटविज्ञानादिभावन ॥ १५९३ ॥ साम्येव भूतानि सोऽनु विनश्यति विनश्यमानानि । अर्थान्तरोपयोगे कमशो विज्ञेयभावेन ॥ १५९४.
॥६८२॥
For
and Private Use Only