SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः । पराशङ्का प्रतिविधानं चाह-- विशेषा 'देहप्फंदणहेऊ होज्ज पयत्तो त्ति सो वि नाकिरिए । होजादिट्ठो व मई तदरूवत्ते नणु समाणं ॥१८४७॥ रूवित्तम्मि स देहो वच्चो तप्कंदणे पुणो हेऊ । पइनिययपरिप्फंदणमचेयणाणं न वि य जुत्तं ॥ १८४८ ॥ ॥७७३॥ अथवं ब्रूषे- देहपरिस्पन्दहेतुरात्मनः प्रयत्नो न तु क्रिया, अतो नात्मनः सक्रियत्वसिद्धिरित्यभिप्रायः । अत्रोत्तरमाह-- सोऽपि प्रयत्नो नभसीवाक्रिय आत्मनि न संभवति, अतः सक्रिय एवासौ । अमूर्तस्य च प्रयत्नस्य देहपरिस्पन्दहेतुत्वे कोऽन्यो हेतुरिति वाच्यम् ? । अन्यहेतुनिरपेक्षः स्वत एवायं परिस्पन्दहेतुरिति चेत् । यद्येवम् , आत्मापि तद्धतुर्भविष्यति, किमन्तर्गडुना प्रयत्नेन ? । अथादृष्टः कोऽपि देहपरिस्पन्दहेतुः, न त्वात्मा, निष्क्रियत्वात् । ननु सोऽप्यदृष्टः किं मूर्तः, अमूतों वा?। यद्यमूर्तः, तात्मापि देहपरिस्पन्दहेतुः किं नेष्यते, अमूर्तत्वाविशेषात् ? । अथ मूर्तिमानदृष्टः, तर्हि स कार्मणशरीरलक्षणो देह एव, नान्यः संभवति । तस्यापि च बहिदृश्यदेहपरिस्पन्दहेतुतया व्याप्रियमाणस्य परिस्पन्दो द्रष्टव्यः, तस्य चान्यो हेतुर्वाच्यः, तस्यापि चान्यः, तस्यापि चान्य इत्यनवस्था । अथ स्वभावादेवादृष्टस्य कार्मणदेहस्य परिस्पन्दः प्रवर्तते, तर्हि बहिदृश्यस्यापि देहस्य तत एव तत्पत्तिर्भविष्यति, किमदृष्टकार्मणदेह परिकल्पनेन ? । अस्त्वेवमिति चेत् । तदयुक्तम् , अचेतनानामेवंभूतप्रतिनियतविशिष्टपरिस्पन्दनस्य स्वाभाविकत्वानुपपत्तेः, "नित्यं 6 सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्" इत्यादिदोषप्रसङ्गात् । तस्मात् कर्मविशिष्ट आत्मैव प्रतिनियतदेहपरिस्पन्दनहेतुत्वेन व्याप्रियत Ro इति सक्रियोऽसाविति ॥ १८४७ ॥ १८४८ ॥ भवतु तर्हि भवस्थस्य सकर्मणो जीवस्य क्रिया, मुक्तस्य तु कथमसौ ?, इत्याशङ्कय परिहरन्नाह होउ किरिया भवत्थस्स कम्मरहियस्स किंनिमित्तासा? नणु तग्गइपरिणामा जह सिद्धत्तं तहा सा वि ॥१८४९॥ पूर्वार्धनाक्षेपः, पश्चार्थेन तु परिहारः, प्राग् व्याख्यातार्थ एवेति ॥ १८४९ ॥ अपरस्त्वाह--- , देहस्पन्दनहेतुर्भवत् प्रयत्न इति सोऽपि नाकिये । भवेददृष्टो वा मतिसदरूपत्वे ननु समानम् ॥ १८५७ ॥ रूपिरचे स देहो वाच्यस्तत्पन्दने पुनर्हेतुः । प्रतिनियतपरिस्पन्दनमचेतनाना नापि च युक्तम् ॥ १८५८ ॥ २ भवतु क्रिया भवस्थस्य कर्मरहितस्प किंनिमित्ता सा' । ननु तद्गतिपरिणामाद् यथा सिद्धत्वं तथा सापि ॥ १८४९ ॥ 2A ७७३॥ JamEducationainteman For Personal and Private Use Only
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy