SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ विशेष ॥७९८॥ मूर्त च तत् कर्म । कुतः ? इत्याह ऐत्तो च्चिय तं मुत्तं मुत्तबलाहाणओ जहा कुंभो । देहाइकजमुत्ताइओ व्व भणिए पुणो भणइ ॥ १९२७ ॥ यत एव तुल्यसाधनानां कर्मनिबन्धनः फलभेदः, अत एवोच्यते-मृत कर्म, मूर्तस्य देहादेवलाधानकारित्वात् , कुम्भवत् , यथा निमित्तमात्रभावित्वेन घटो देहादीनां बलमाधत्ते, एवं कर्मापि, अतो मूर्तमित्यर्थः। अथवा, मूर्त कर्म, मूर्तेन सक्-चन्दना-ऽङ्गनादिना तस्योपचयलक्षणस्य बलस्याधीयमानत्वात् , कुम्भवत्- यथा मूर्तत्वेन तैलादिना वलस्याधीयमानत्वात् कुम्भो मूर्तः, एवं स्रक्चन्दनादिनोपचीयमानत्वात् कर्मापि मूर्तमिति भावः। यदिवा, मूर्त कर्म, देहादेस्तत्कार्यस्य मूर्तत्वात् , परमाणुवत्- यथा घटादेस्तकार्यस्य मूर्तस्य दर्शनात् परमाणवो मूर्ताः, एवं देहादेस्तत्कार्यस्य मूर्तस्य दर्शनात् कर्मापि मूर्तमित्यर्थः । एवं भणिते पुनर्भणति परः ।। किम् ? इत्याह तो किं देहाईणं मुत्तत्तणओ तयं हवइ मुत्तं । अह सुह-दुक्खाईणं कारणभावादरूवं ति ? ॥ १९२८ ॥ ततः किं देहादीनां कर्मकार्याणां मूर्तानां दर्शनात् तत् कर्म मूर्त भवतु, आहोस्वित् सुख-दुःख-क्रोध-मानादीनां जीवपरिणामभूतानां तत्कार्याणाममूर्तानां दर्शनात् तत् कारणभावनामूर्तमस्तु कर्म ? इत्येवं मूर्तत्वा-ऽमूर्तत्वाभ्यामुभयथापि तत्कार्यदर्शनात् किं मूर्तम् , अमूर्त वा कर्म भवतु ? इति निवेद्यतामिति ॥ १९२८ ॥ एवं प्रेरकेणोक्ते सत्याहनै सुहाईणं हेऊ कम्मं चिय किन्तु ताण जीवो वि । होइ समवाइकारणमियरं कम्म ति को दोसो ? ॥१९२९॥ सुखादीनां कमैंव केवलं कारणं न भवति, किन्तु जीवोऽपि तेषां समवायि कारणं भवति, कर्म पुनरितरदसमवायि कारणं भवतीति को दोषः १ । इदमुक्तं भवति-सुखादेरमूर्तत्वेन समवायिकारणस्य जीवस्यामूर्तत्वमस्त्येव, असमवायिकारणस्य तु कर्मणः सुखाद्यमूर्तत्वेनामूर्तत्वं न भवतीत्यपीति न दोष इति ।। १९२९ ।। एतस्मादेव तद् मूर्त मूर्तवलाधानतो यथा कुम्भः । देहादिकार्यमूर्तादित इव भाणिते पुनर्भणति ।। १९२७ ।। २ ततः किं देहादीनां मूर्तत्वतस्तद् भवति मूर्तम् । अथ सुख-दुःखादीनां कारणभावादरूपमिति ? ॥ १९२८ ।। ३ न सुखादीनां हेतुः कमैंव किन्तु तेषां जीवोऽपि । भवति समवायिकारणमितरत् कर्मेति को दोषः ।। १९२९ ।। ॥७९॥ Educantata For Pessoal and Private Use Only
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy