SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥७९९॥ . तदेवमुक्तमर्थमुपसंहरन् केवलपुण्यलक्षणं प्रथमविकल्प दपयितुमाहइय रूवित्ते सुह-दुक्खकारणत्ते य कम्मुणो सिद्धे । पुण्णावगरिसमेत्तेण दुक्खबहुलत्तणमजुत्तं ॥ १९३० ॥ इत्येवं पश्चमविकल्पोपन्यस्तस्वभाववादनिरासेन पुण्य-पापात्मकस्य कर्मणः सुख-दुःखकारणत्वे रूपित्वे च सिद्धे पुण्यापकर्षमा-18 त्रेण यद् दुःखबहुलत्वं प्रथमविकल्पोपन्यासे प्रोक्तं तदयुक्तमिति ॥ १९३० ।। कुतोऽयुक्तम् ? इत्याह कैम्मप्पगरिसजणियं तदवस्सं पगरिसाणुभूईओ। सोक्खप्पगरिसभूई जह पुण्णप्पगरिसप्पभवा ॥१९३२|| तद् दुःखबहुलत्वं पुण्यापकर्षजनितं न भवति, किन्तु स्वानुरूपकर्मप्रकर्षजनितम् , प्रकर्षानुभूतित्वात्- वेदनाप्रकर्षानुभवरूपत्वादिति हेतुः, यथा सौख्यप्रकर्षानुभूतिः स्वानुरूपकर्मप्रकर्षमभवेति दृष्टान्तः ॥ १९३१ ॥ उपपत्त्यन्तरमाह तेह बज्झसाहणप्पगरिसंगभावादिहण्णहा न तयं । विवरीयबज्झसाहणबलप्पगरिसं अवेक्खेजा ॥१९३२॥ 'तथा' इत्युपपत्यन्तरार्थः, । इह देहिनां दुःखबहुलत्वं केवलपुण्यापकर्षमात्रजनितं न भवति । कुतः १ इत्यत्र हेतुमाह- बाह्यानि यान्यनिष्टाहारादीनि साधनानि तेषां यस्तदनुरूपः प्रकर्षस्तस्याङ्गभावात् कारणभावादिति । विपर्यये बाधकमाह- 'इहेत्यादि' तद् दुःखमन्यथा यदि पुण्यापकर्षमात्रजन्यं भवेत् तदा पुण्यसंपाद्येष्टाहारापचयमात्रादेव भवेत् , न तु पापोपचयसंपाद्यानिष्टाहारादिरूपविपरीतबाह्यसाधनानां यद् बलं सामर्थ्य तस्य खानुरूपो यः प्रकर्षस्तमपेक्षेत । इदमत्र हृदयम्- यदि पुण्यापकर्षमात्रजन्यं दुःखं भवेत् , तदा पुण्योदयमाप्येष्टाहारादिसाधनापकर्षमात्रादेव भवेत् , न चैतदस्ति, इष्टविपरीतानिष्टाहारादिसाधनप्रकर्षसामर्थ्यादेव तद्भावादिति ॥ १९३२ ॥ अपिच, *देहो नावचयकओ पुण्णुक्करिसे व मुत्तिमत्ताओ। होज वस हीणतरओ कहमसुभयरो महल्लो य ? ॥१९३३॥ इति रूपिरवे सुख-दुःखकारणत्वे च कर्मणः सिद्धे । पुण्यापकर्षमात्रेण दुःखबहुलत्वमयुक्तम् ।। १९३० ।। २ कर्मप्रकर्षजनितं तदवश्वं प्रकर्षानुभूतेः । सौख्यप्रकर्षभूतिर्यथा पुण्यप्रकर्षप्रभवा ॥ १९३१ ॥ ३ तथा बाह्यसाधनप्रकर्षाङ्गभावादिहान्यथा न तत् । विपरीतवाससाधनबलप्रकर्षमपेक्षेत ॥ १९३२ ॥ ४ देहो नापचयकृतः पुण्योत्कर्ष इव मूर्तिमत्त्वात् । भवेद् वा स हीनतरकः कथमचभतरो महाब' ॥ १९५३ ॥ 9 Falo ७९९॥ For Personal and Provate Use One
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy