________________ बदत्तिः। दुखितहस्त्यादिदेहः केवलपुण्यापचयमात्रकृतो न भवति, मूर्तिमत्त्वात् , यथा पुण्योत्कर्षे तजन्योऽनुत्तरसुर-चक्रवत्यादिदेहा, विशेषा. यश्च पुण्यापचयमात्रजन्यः स मूर्तिमानपि न भवति, यथा न कोऽपि, यदि च पुण्यापचयमात्रेण देहो जन्येत, तदा हीनतरः शुभ // 800|| एव च स्यात्, कथं महान् , अशुभतरश्च भवेत् , महतो महापुण्योपचयजन्यत्वात् , अशुभस्य चाशुभकर्मनित्यत्वात् ? / पुण्येन पुनर णीयसापि शुम एक देहो जन्येत, न तु दुःखितः / अणीयसापि हि सुवर्णलवेनाणीयानपि सौवर्ण एव घटो भवति न तु मार्तिकः, KA ताम्रादिति / 1939 ___ अथ केवलपापपक्षं संकीर्णपुण्यपापपक्षं च षयितुमाह ऐवं चिय विवरीयं जोएजा सव्वपावपक्खे वि / न य साहारणरूवं कम्मं तकारणाभावा // 1934 // 'सर्व पापमेवास्ति, न तु पुण्यम् , पापापचयमात्रजन्यत्वात् सुखस्य' इत्येतस्मिन्नपि पक्षे एवमेव- केवलपुण्यवादोक्तदुषणाद् विपरीतगत्या सर्व योजयेत् / यद्यथा- पापापकर्षमात्रजनितं सुखं न भवति, पापस्याल्पीयसोऽपि दुःखजनकत्वात् / न ह्यणीयानपि विषलवः स्वास्थ्यहेतुर्भवति / तस्मात् पुण्यजनितमेवाल्पमपि सुखमित्यादि स्वबुद्ध्याऽभ्यूह्य वाच्यम् / इति पृथग दुःखयोः कारणभूते खतन्त्रे पुण्य-पापे एष्टव्ये / अत एव साधारणे अपि संकीर्णे पुण्य-पापे नैष्टव्ये / कुतः ? इत्याह- 'न येत्यादि' न च साधारणस्पर संकीर्णस्वभावं पुण्य-पापात्मकमेकं कर्मास्ति, तस्यैवंभूतस्य कर्मणः कारणाभावात् / अत्र प्रयोगः- नास्ति संकीर्णोभयरूपं कम,/ | असंभाव्यमानैवंविधकारणत्वात् , वन्ध्यापुत्रवदिति // 1934 // हेतोरसिद्धतां परिहरनाहकैम्म जोगनिमित्तं सुभोऽसुभो वा स एगसमयम्मि। होज न उ उभयरूवो कम्मं पितओ तयणुरूवं // 19 // 5 // मिथ्यात्वा-विरति-प्रमाद-कषाययोगा बन्धहेतव इति पर्यन्ते योगाभिधानात् सर्वत्र कर्मबन्धहेतुत्वस्य योगाविनाभावाद / योगानामेव बन्धहेतुत्वमिति कर्म योगनिमित्तमुच्यते / स च मनो-वाक्-कायात्मको योग एकस्मिन् समये शुभोऽशुभो वा भवेत, न तूभयरूपः, अतः कारणानुरूपत्वात् कार्यस्य कर्मापि तदनुरूपं शुभं पुण्यरूपं बध्यते, अशुभं वा पापरूपं बध्यते, न तु संकीर्णस्वभावमुभयरूपमेकदेव बध्यत इति / / 1935 / / / , एवमेव विपरीत योजयेत् सर्वपापपक्षेऽपि / न च साधारणरूपं कर्म तरकारणाभावात् // 1934 // 2 कर्म योगनिमित्तं शुभोऽशुभो वा स एकसमये / भवेद् न तूभयरूपः कोऽपि ततस्तदनुरूपम् // 1935 // Foreesame and Private use only