SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ CARNA वृहद्वत्तिः । दान्तिकमधिकृत्य प्ररूपणा स्वयमेव कार्या, यथा कोऽपि शिष्यः श्रुतग्रहणमाश्रित्य छिद्रघटकल्पो भवति, कश्चित्तु भिन्नघटकल्प विशेषा इत्यादि वाच्यमिति ॥ १४६२ ॥ अथ क्रमप्राप्तं चालन्युदाहरणमभिधित्सुः, मुद्गशैल-च्छिद्रकुट-चालन्युदाहरणानां परस्पराभेदोद्भावकशिष्यमतं च निराचिकीर्षुराह॥६३१॥ 'सेले य छिडु-चालणि मिहो कहा सोउमुट्ठियाणं तु । छिड्डाह तत्थ विट्ठो सुमरिंसु सरामि नेदाणि ॥१४६३ ॥ एगेण विसइ बीएण नीइ कन्नेण चालणी आह । धन्न त्थ आह सेलो जं पविसइ नीइ वा तुझं ॥ १४६४ ॥ शैल-च्छिद्रकुट-चालन्युदाहरणैः प्रतिपादिताः शिष्या अप्युपचारात् तथोच्यन्ते, तत्सादृश्यात् । ततश्च शैल-च्छिद्रकुट-चालBA न्यभिधानानां शिष्याणां गुर्वन्तिके व्याख्यानं श्रुत्वा, उत्थायान्यत्र गतानां मिथः परस्परं कथा समभवत । कीदृशी?, इत्याहLON छिडेत्यादि' छिद्रघटकल्पच्छिद्रः शिष्यः माह । किम् , इत्याह- तत्र गुरुसमीपे उपविष्टस्तदुक्तमस्मार्षमहम् , इदानीं तु न किमपि स्मरामि | छिद्रघटो ह्येवविध एव भवति । सोऽपि स्थानस्थितो मुद्गादिकं प्रक्षिप्तं धरति, अन्यत्र तूत्क्षिप्य नीतस्य तन्त्र प्राप्यते, RAM अधश्छिद्रेण गलित्वा निःस्तत्वात , अतस्तस्कल्पः शिष्योऽपीत्थमाहेति भावः । छिद्रकुटकल्पेन शिष्येणैवमुक्ते चालनीकल्पः प्राह एकणेत्यादि' चालनीकल्पः शिष्यश्चालनी, स प्राह-भोश्छिद्रकुट ! शोभनस्त्वम् , येन गुरुसमीपस्थेन त्वया तावदवधारितं तद्वचः पश्चादेव विस्मृतम् , मम तु गुर्वन्तिकेऽपि स्थितस्यैकेन कर्णेन विशति, द्वितीयेन तु निर्गच्छति, न पुनः किमपि हृदये स्थितम् । कणिकादिचालन्या अपि हि जलादिकमुपरिभागे निक्षिप्यते, अधोभागेन तु निर्गच्छति, न तु किमपि संतिष्ठते, अतस्तदुपमः शिष्योऽपीत्थमेवाहेति भावः । तदेवं छिद्रकुट-चालनीभ्यामेवमुक्ते मुद्गशैलः पाह- 'धन्न स्थेत्यादि' मुद्गशैलो वदति-धन्यावत्र युवाम् , यद् यस्मात् कारणाद् युवयोस्तावत्कर्णयोगुरूक्तं किमपि प्रविशति, निर्गच्छति च । मम त्वेतदपि नास्ति, तदुक्तस्य सर्वथापि मध्ये प्रवेशाभावात् , उपलस्यैवंविधत्वादेवेति । तदेवं चालन्युदाहरणस्य स्वरूपमुक्तम् , शैल-च्छिद्रघट-चालन्युदाहरणानां परस्परं विशेषश्वाभिहितः ।।१४६३।।१४६४॥ अथ चालनीप्रतिपक्षमाह शैले च च्छिद-चालन्योमिथः कथा श्रुत्वोत्थितानां तु । छिद्र आह तत्र विष्टोऽस्मार्ष स्मरामि नेदानीम् ॥ १४६३ ॥ एफेन विशति द्वितीयेन निगच्छति कर्णेन चालन्याह । धन्यावत्राह शैलो यत् प्रविशति निर्गच्छति वा युवयोः ॥ १४६४ ॥ जा525aharale ॥६३१॥ Jan Education 1924 For Peasonal and Preve n ty
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy