________________
विशेषा०
॥६३२॥
Jain Educationa Internation
ती सखउरकठिण चालणिपडिवक्खो न सवइ दव्वं पि । परिपूणगम्मि उ गुणा गलंति दोसा य चिट्ठति ॥ १४६५ ॥ चालनीप्रतिपक्षः 'भवति' इति शेषः । कीदृशः १ इत्याह- तापसानां भोजनादिनिमित्तमुपकरणविशेषः 'खउरकठिनकम्' उच्यते । तच्च किल वंशं शुम्बादिकं च द्रव्यमतिश्लक्ष्णं कुयित्वा कमटकाकारं क्रियते । इदं चातिनिविडत्वाद् द्रव्यं, जलमपि प्रक्षिप्तं न स्रवति, किन्तु सम्यग् धरति । एवं शिष्योऽपि यो गुरुभिराख्यातं सर्वमेत्र धरति, न विस्मरति, स ग्राह्यः, चालनीसमस्त्वग्राह्य इति भावः ।
अथ परिपूणकोदाहरणमाह- 'परिपूणग-' इत्याद्युत्तरार्धम् । परिपूणको नाम सुघरीचिटिकाविरचितो नीडविशेषः तेन च किल घृतं गायते, ततस्तत्र कचवरमवतिष्ठते, घृतं गलित्वाऽधः पतति, एवं परिपूणक सदृशः शिष्योऽप्युपचारात् परिपूणकः । तत्र हि श्रुतसंबन्धिनो गुणाः सर्वेऽपि घृतवद् गलन्ति, दोषास्तु घृतगतकचवरवदवतिष्ठन्ते श्रुतस्य दोषानेव गृह्णाति गुणांस्तु सर्वथा परिहरत्यौ, अतोऽयोग्य इति भाव इति ।। १४६५ ।।
अत्र प्रेर्यमुत्थाय परिहरन्नाह -
सैव्वण्णुपामन्ना दोसा हु न संति जिणमए केइ । जं अणुवउत्तकहणं अपत्तमासज्ज व हवेज || १४६६ ॥
ननु सर्वज्ञप्रामाण्यात् सर्वज्ञोऽस्य प्रवर्तक इति हेतोर्जिनमते दोषाः केचिदपि न सन्तीत्यर्थः, तत् कथमस्य कोऽपि दोषान् ग्रहीष्यति, असत्त्वादेव ? इति भावः । सत्यम्, किन्तु यद्यपि जिनमते दोषा न सन्ति, तथाऽप्यनुपयुक्तस्य गुरोर्यत् कथनं व्याख्याविधानं तदाश्रित्य दोषा भवेयुरिति संबन्धः । अथवा, अपात्रमयोग्यं शिष्यमङ्गीकृत्य जिनमतेऽपि तदुत्प्रेक्षिता दोषा भवेयुः, निर्दोषेsपि जनमते पात्रभूताः शिष्या असतोऽपि दोषानुद्भावयन्त्येवेत्यर्थः । तथाच ते वक्तारो भवन्ति, तद्यथा
"पगथभासनिबद्धं को वा जाणइ पणीय केणेयं । किंवा चरणेणं णु दाणेण विणा उ हवइति ॥ १ ॥
कायावया य त चियते चैव पमाय-अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहिं किं कज्जं ? ॥ २ ॥
1
१ तापस- 'खउरकठिनकं' चालनीप्रतिपक्षो न ववति द्रव्यमपि परिपूरके तु गुणा गलन्ति दोषाच तिष्ठन्ति ।। १४६५ ।। २.ग. वंशकुन्दादिकं द्र' ।
३ सर्वज्ञप्रामाण्याद् दोषाः खलु न सन्ति जिनमते केचित् । यदनुपयुक्तकथनमपात्रमासाद्य वा भवेयुः ॥ १४६६ ॥
४ प्राकृतभाषानिबद्धं को वा जानाति प्रणीतं केनेदम् ? किंवा चरणेन तु दानेन विना तु भवतीति ॥ १ ॥ कायापद ता एव तावेव प्रमादा-प्रमादौ च । मोक्षाधिकारिकाणां ज्योतियनिभिः किं कार्यम् ? ॥ २ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥६३२॥
www.jainelibrary.org