SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥६३३॥ Jain Education International को आउरस्स कालो मइलंबरधोयणे य को कालो ? । जइ मोक्खहेउ नाणं को कालो तस्सकालो वा ! ॥ ३ ॥ " इत्यादि । असन्तश्च सर्वेऽप्यमी दोषाः, "बाल-स्त्री-मूढ-मूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः ॥ १ ॥ " “पुंव्वभणियं पि जं वत्थु भण्णए तत्थ कारणं अस्थि । पडिसेहो य अणुन्ना वत्युविसेसोवलंभो वा ॥ १ ॥” इत्यादिना शास्त्रान्तरे विस्तरेण निराकृतत्वादिति ।। १४६६ ।। अथ हंसोदाहरणव्याख्यामाह - बत्तणेण जीहाए कूचिया होइ खीरमुदगम्मि । हंसो मुत्तूण जलं आवियइ पयं तह सुसीसो || १४६७॥ दुग्धं च जलं च मिश्रयित्वा भाजने व्यवस्थाप्य कोऽपि हंसस्य पानार्थमुपनयति । स च तन्मध्ये चञ्चुं प्रक्षिपति । तस्य च जिहा स्वभावत एवाम्ला भवति । तेन च जिह्वाया आम्लत्वेन हेतुभूतेनोदकमध्यगतं दुग्धं विलित्वा कूचिका विन्दुरूपा बुबुदा भवन्तीत्यर्थः । ततश्च जलं मुक्त्वा तद् बुद्बुदीभूतं दुग्धमापिवति हंसः । तथा सुशिष्योऽपि गुरोर्जलस्थानीयान् दोषान् परित्यज्य दुग्धस्थानीयान् गुणान् गृह्णातीत्यर्थ इति ।। १४६७ ॥ अथ महिषोदाहरणं विवृण्वन्नाह यमविन पियइ महिसो न य जूहं पियइ लोडियं उदगं । विग्गह-विगहाहि तहा अत्थकुपुच्छाहिय कुसीसो ॥ १४६८ ॥ स्वयूथेन समं वनमहिषो जलाशये कचिद् गत्वा तन्मध्ये च प्रविश्योद्वर्तन- परावर्तनादिभिस्तथा तज्जलमालोडयति यथा कलुषितं सद् न स्वयं पिवति, नापि तद्यथम् । एवं कुशिष्योऽपि व्याख्यामण्डलिकायामुपविष्टो गुरुणा, अन्येन वा शिष्येण सह विग्रह कलहमुदीरयति, विकथाप्रबन्धं वा किश्चिच्चालयति, संबद्धा-संबद्धरूपाभिरनवरतमुपर्युपरि पृच्छाभिश्च तथा कथञ्चिद् व्याख्यानमालोडयति, यथा नात्मनः किञ्चित् पर्यवस्यति, नापि शेषविनेयानामिति ।। १४६८ ॥ ८० १ क आतुरस्य कालो मलिनाम्बरधावने च कः कालः ? । यदि मोक्षहेतुर्ज्ञानं कः कालस्तस्याऽकालो वा १ ॥ ३ ॥ २ पूर्वभणितमपि यद् वस्तु भण्यते तत्र कारणमस्ति । प्रतिषेधश्चानुज्ञा वस्तुविशेषोपलम्भो वा ॥ १ ॥ ३ आम्लत्वेन जिह्वायाः कृतिका भवति क्षीरमुदके हंसो मुक्या जलमापिवति पयस्तथा शिष्यः ॥ १४६७ ॥ ४ स्वयमपि न पिबति महिषो न च यूथे पिबति लोडितमुदकम् । विग्रह विकथाभिस्तथाऽर्थ कुपृच्छामिश्र कुशिष्यः ॥ १४६८ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥६३३॥ www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy