SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥६३४॥ Jain Education International मेषोदाहरणमाह अवि गोपयम्मि पिवे सुढिओ तणुयत्तणेण तुंडस्स । न करेइ कलुस तोयं मेसो एवं सुसीसो वि ॥ १४६९॥ जलभृते कचिद् गोष्पदेऽपि 'सुटिङ त्ति' संकुचिताङ्गो मेष ऊरणकः पिवेज्जलम्, न च तत् कलुषं करोति । केन हेतुना ? इत्याह- तनुकत्वेनाग्रभागे श्लक्ष्णत्वेन तुण्डस्य मुखस्येति । अग्रपादाभ्यामवगम्य तीक्ष्णेन मुखेन तथासौ जलं पिवति यथा सर्वथैव कलुषं न भवति । एवं सुशिष्योऽपि तथा गुरोः सकाशाद् निभृतः श्रुतं गृह्णाति यथा तस्य, परिषदो वा न कस्यचिद् मनोवाधादिकं कालुष्यं भवतीति ॥। १४६९ ।। मशक- जलूकोदाहरणद्वयविवृतिमाह- स व तुदं जच्चाइएहिं निच्छुभए कुसीसो वि । जलुगा व अदूमंतो पिचइ सुसीसो वि सुयनाणं ||१४७० ॥ यथा मशको जन्तूंस्तुदते व्यथयति । ततच वस्त्राञ्चलादिभिस्तिरस्कृत्य दूरीक्रियते, तथा कुशिष्योऽपि जात्यादिदोषोद्घाटनैर्गुरु तुदन् व्यथयमानो निश्कास्यते परिहियत इति । जलूका पुनर्यथाऽष्टगु पिवति, न चासृग्मन्तं व्यथयति, तथा सुशिष्योऽपि गुरुभ्यः श्रुतज्ञानं पिवति गृह्णाति न तु जात्युद्घाटनादिना दुनोतीति ।। १४७० ।। विडाल्युदाहरणमाह- छैड्डेउं भूमीए खीरं जह पियइ दुमज्जारी । परिसदुट्टियाण पासे सिक्खइ एवं विनयभंसी ॥ १४७१ ॥ यथा दुष्टमार्जारी तथाविधस्वभावतया स्थास्याः क्षीरं भूमौ छर्दयिला पिवति, न पुनस्तत्स्थम् । तथाच सति न तत् तस्यास्तथाविधं किञ्चित् पर्यवस्यति । एवं विनयाद् भ्रश्यतीति विनयभ्रंशी विनयकरणभीरुः कुशिष्यो गोष्ठामा हिलवत् परिष दुत्थितानां विन्ध्यादीनामिव पार्श्वे शिक्षते श्रुतं गृहाति, न तु गुरोः समीपे तद्विनयकरणभयात् । इह च दुष्टमार्जारीस्थानीयः कुशिष्यः, भूमिकल्पस्तु परिषदुत्थिताः शिष्याः, छर्दितदुग्धपानसदृशं तु तद्गतश्रुतश्रवणमिति ।। १४७१ ॥ १ अपि गोष्पदे पिबेद् मेपकस्तनुकत्वेन तुण्डस्य । न करोति कलुषं तोयं मेप एवं सुशिष्योऽपि ॥ १४६९ ॥ २ मशक इव तात्यादिभिर्निष्कास्यते कुशिष्योऽपि । जलूके वाऽदुनन् पिबति सुशिष्योऽपि श्रुतज्ञानम् ॥। १४७० ॥ ३ उर्दयित्वा भूमौ क्षीरं यथा पिवति दुष्टमाजरी परिषदुत्थितानां पार्श्वे शिक्षत एवं विनयवंशी ।। १४७१ || For Personal and Private Use Only बृहद्वृत्तिः । ॥६३४ ॥ www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy