SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ विशेषा० ||६३५|| Jain Educationa Internatio जाहकोदाहरणमाह पीडं थोडं थोडं खीरं पासाईं जाहगो जह लिहइ । एमेव जियं काउं पुच्छइ मइमं न खेएइ ॥ १४७२ ॥ यथा भाजनगतं क्षीरं स्तोकं स्तोकं पीत्वा ततो जाहकः सेहलको भाजनस्य पार्श्वानि लेढि पुनरपि च स्तोकं तत् पीत्वा भाजनपार्श्वानि लेढि, एवं पुनः पुनस्तावत् करोति यावत् सर्वमपि क्षीरं पीतमिति । एवं मतिमान् सुशिष्योऽप्रेतनं गृहीतं श्रुतं परिचितं कृत्वा पुनरन्यद् गृह्णाति एवं पुनः पुनस्तावद् विदधाति यावत् सर्वमपि श्रुतं गुरोः सकाशाद् गृह्णाति, न च गुरुं खेदयतीति ।। १४७२ ॥ अथ गोष्टान्त उच्यते तत्र च केनापि यजमानेन वेदान्तर्गतग्रन्थविशेषाध्ययननिमित्तचरणशब्दवाच्येभ्यश्चतुभ्य बाह्मणविशेषेभ्यो गौः प्रदत्ता । मोदान तेन ते ब्राह्मणाः- 'वारकेणासौ भवद्भिर्दोग्धव्या' इति । अन्येभ्योऽपि च चतुर्थ्यश्चरणद्विजेभ्यो गौरेका तेन प्रदत्ता । तेऽपि च तेन तथैवोक्ताः । तत्र च प्रथमद्विजानां मध्ये ज्येष्ठब्राह्मगेन केनचिद् गौः स्वग्रहे नीत्वा दुग्धा । ततवारीप्रदानवेलायां चिन्तितं तेन । किम् ? इत्याह अन्नो दोजिइ कल्ले निरत्थियं किं वहामि से चारिं । चउचरणगवी उ मया अवन्न-हाणी य बहुयाणं ||१४७३॥ तेनैतच्चिन्तितम् — हन्त ! वारकप्राप्तोऽन्यो ब्राह्मणः कल्ये तावदेतां धेनुं धोक्ष्यति, तत् किमद्य निरर्थकामस्याश्वारीं वहामि । कल्पेऽन्योऽपि हि तां दास्यति, इति विनिश्चित्य न तस्यावारी प्रदत्ता । ततो द्वितीये दिने द्वितीयेनापि द्विजातीयेन तथैव कृतम् । एवं तृतीये दिने तृतीयेनापि चतुर्थे दिने चतुर्थेनापि तथैव चेष्टितम् । इत्थं च चारीविरहिता दुह्यमाना कतिपयदिनमध्ये चतुर्णां चरणानां संबन्धिनीसा गौर्मृता । ततश्च तेषां बहूनां गोहत्या समभवत् । जने चावर्णवादो जातः, हानिश्च तेषां ततो यजमानात् अन्यस्माद् वा पुनर्गवादिलाभाभावादिति ।। १४७३ ।। अन्यैश्च यैश्चतुर्भिश्चरणैगौर्लब्धा, तन्मध्ये प्रथमद्विजस्तां दुग्ध्वा चारीप्रदानवेलायामचिन्तयत्, किम् ?, इत्याह मी मे हो अवणो गोवज्झा वा पुणो वि न दविज्जा । वयमवि दोज्झामो पुणो अणुग्गहो अन्नदुद्धे वि ॥ १४७४ ॥ १ पfear स्तोकं स्तोकं क्षीरं पार्श्वनि जाहको यथा लेढि । एवमेव जितं कृत्वा पृच्छति मतिमान् न खेदयति ।। १४७२ ।। २ अन्यो धोक्ष्यति कल्ये निरर्थिकां किं वहामि तस्याश्चवारीम् । चतुश्चरणगौस्तु मृताऽवर्ण-हान्यौ च बहुकानाम् ॥ १४७३ ।। ३ मा मम भूदवर्णो गोहत्या वा पुनरपि न दास्यति । वयमपि घोक्ष्यामः पुनरनुग्रहोऽम्यदुग्धायामपि ।। १४७४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥६३५॥ Howww.janelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy