SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद्वत्तिः । ॥६३०॥ कुप्पवयणआसेन्नेहिं भाविया एवमेव भावकुडा । संविग्गेहिं पसत्था वम्मा अवम्मा य तह चेव ॥१४६१॥ कुटा घटाः, ते च तावद् द्विविधाः- एके आपाकोत्तीर्णा नूतना अव्याप्रियमाणत्वादद्यापि पुष्प-जल-तैलादिनाऽभाविताः, अन्ये तु व्याप्रियमाणत्वाद् भाविताः। तत्र भाविता द्विविधाः-सुरभिपाटलाकुसुम-पटवासादिप्रशस्तवस्तुभिर्भाविताः प्रशस्तभाविताः, सुरा-तैलाद्यप्रशस्तवस्तुभावितास्त्वप्रशस्तभाविताः। प्रशस्तभाविताः पुनरपि द्विविधाः- तद्भावं वमयितुं शक्या वाम्याः, तद्विपरीतास्त्ववाम्याः । एवमेवाप्रशस्तभाविता अपि वाम्या-वाम्यभेदद्वयादेव द्विविधाः । तत्र ये प्रशस्तवाम्याः प्रशस्तभावं वमयितुं शक्यास्ते ग्राह्या भवन्ति, अनादेयाः, असुन्दरा इति यावत् । तथा, येऽप्रशस्तभावं वमयितुमशक्या अप्रशस्तावाम्यास्तेऽप्यग्राह्या भवन्ति । 'तप्पडिवक्खा भवे गेज्झ त्ति' तेषां प्रशस्तवाम्यानाम् , अप्रशस्तावाम्यानां च ये प्रतिपक्षाः प्रशस्तावाम्याः, अप्रशस्तवाम्याश्च ते ग्राह्या आदेयाः सुन्दरा भवन्ति । तदेवं द्रव्य कूटास्तावत् प्ररूपिताः। भावकुटा अपि प्रशस्ता-प्रशस्तगुणजलाचारवाच्छिष्यजीवा एवमेव भाविता-ऽभावितादिभेदाद् द्रष्टव्या: । केवलमत्र पक्षे कुपवचनावसनादिभिर्भाविताः 'अप्रशस्तभाविता उच्यन्ते' इत्यध्याहारः । ये तु संविग्नैरेव साधुभिर्भावितास्ते प्रशस्ताः प्रशस्तभाविता इत्यर्थः । 'वम्मा अचम्मा य तह चेव त्ति' वाम्याऽवाम्यभावना यथा द्रव्यकुटपक्षे तथैव भावकुटपक्षेऽपि द्रष्टव्येत्यर्थः । सा चैवम्- प्रशस्तभाविता वाम्या:, अप्रशस्तभावितास्त्ववाम्याः, एते उभयेऽप्यग्राह्याः । उक्तविपरीतास्तु ग्राह्या इति । तदेवमुक्तो भावितकुटपक्षः ॥ १४५९ ।। १४६० ।। १४६१ ॥ अथाभावितकुटपक्षमधिकृत्याह'जे उण अभाविया ते चउविहा, अहविमो गमो अन्नो। छिड्डकुड-भिन्न-खंडे सगले य परूवणा तेसिं ॥ १४६२ ॥ ये पुनरभाविताः कुटास्ते छिन्न-भिन्न-खण्ड-सकलभेदाच्चतुर्विधाः। अथवा, भाविता-भावितपक्षनिरपेक्ष एवाऽयमन्यश्छिन्न-भिन्नादिको गमः प्रकारो वर्तत इत्यर्थः । तमेवाह- 'छिड्डकुडेत्यादि' इह कुटो घटः कोऽपि तावच्छिद्रो भवति, बुघ्ने सच्छिद्रो भवतीत्यर्थः । अन्यस्तु भिन्नो राजिमान् भवति । तृतीयस्तु खण्डो भग्नकर्णः। चतुर्थस्तु सकलः परिपूर्ण एव भवति । एतेषां च चतुर्णामपि कुटभेदानां अBAR ॥६३०॥ प्रवचनावसभांविता एवमेव भावकुटाः । संविनः प्रशस्ता वाम्या अवाम्याश्च तथैव ॥ १४६१ ॥ २ ये पुनरभावितास्ते चतुर्विधाः, अथवाऽयं गमोऽन्यः । छिद्रकुट-भिन्न-खण्डेषु सकले च प्ररूपणा तेषाम् ॥ १४६२ ॥ JanEducatiana intermati FOC Parman and Private Use Only www.jaincibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy