________________
विशेषा
||७४९॥
यथेह वीतराग-द्वेष-मोहस्य भगवत इष्टाः शब्द-रूपादयो भावविशुद्धितो न कदाचिद् रतिफला रतिजनकाः संपद्यन्ते, यथा वेह शुद्धात्मनो रूपवत्यामपि मातरि न विषयाभिलाषः संजायते तथा शुद्धपरिणामस्य यत्नवतः साधोः सचोपघातोऽपि न हिंसाय संपद्यते । ततोऽशुभपरिणामजनकत्वे बाह्यं निमित्तमनैकान्तिकमेवेति । तस्माद् व्यक्त! सन्ति पञ्च भूतानि, चेतनानि चाधानि चत्वारि, इत्येतत् प्रतीहीति स्थितम् । यच्च "खमोपमं वै सकलम्" इत्यादि । तत्रापि यस्तव चेतसि वतते नासावर्थः, किन्तु भवभयोद्विग्नाना भव्यसत्त्वानां धन-कनक-पुत्र-कलत्रायसारतामात्रप्रतिपादनं तेन विधीयते, येन ते तदास्था परित्यज्य मुक्तये प्रवर्तन्ते, न पुनस्तत्र भूताभावः प्रतिपाद्यते । इति मुश्च संशयम , प्रतिपद्यस्व भूतास्तित्वमिति ।। १७६८।'
ततो व्यपगतसंदेहोऽसौ संवेगमागतो व्यक्तः किं कृतवान् ? इत्याह
'छिन्नम्मि संसयम्मि जिणेण जरा-मरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं ॥१७६९॥ व्याख्यानं पूर्ववत् ॥ इति व्यशीतिगाथार्थः ।। १७६९ ।।
॥ इति चतुर्थो गणधरवादः समाप्तः ॥ अथ पञ्चमगणधरवक्तव्यतामभिधित्सुराह
ते पव्वइए सोउं सुहुम आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि॥ १७७० ॥ व्याख्या पूर्ववत् , नवरं सुधर्मनामा द्विजोपाध्यायोत्र वक्तव्यः ॥ १७७० ।। आगतस्य तस्य भगवता किं कृतम् ? इत्याह
आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसी णं ॥१७७१॥ व्याख्या पूर्ववदिति ।। १७७१ ।। आभाष्य किमुक्तोऽसौ ? इत्याह
"किं मन्ने जारिसोइहभवम्मि सो तारिसो परभवे वि । वेयपयाण य अत्थं न याणसी तेसिमोअत्थो॥१७७२॥ १ गाथा १६०४ । २ तान् प्रबजितान् श्रुत्वा सुधर्माऽऽगच्छति जिनसकाशम् । व्रजामि वन्दे वन्दित्वा पर्युपासे ॥ १७७० ॥ ३ गाथा १६०९। ४ किं मन्यसे यादश इहभवे स तादृशः परभवेऽपि । वेदपदानां चार्थ न जानासि तपामयमर्थः ॥ १७७२ ॥
७४९॥
Jan Education Intera
For Personal and Private Use Only
www.janeibrary.org