SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ विशेषा ||७४९॥ यथेह वीतराग-द्वेष-मोहस्य भगवत इष्टाः शब्द-रूपादयो भावविशुद्धितो न कदाचिद् रतिफला रतिजनकाः संपद्यन्ते, यथा वेह शुद्धात्मनो रूपवत्यामपि मातरि न विषयाभिलाषः संजायते तथा शुद्धपरिणामस्य यत्नवतः साधोः सचोपघातोऽपि न हिंसाय संपद्यते । ततोऽशुभपरिणामजनकत्वे बाह्यं निमित्तमनैकान्तिकमेवेति । तस्माद् व्यक्त! सन्ति पञ्च भूतानि, चेतनानि चाधानि चत्वारि, इत्येतत् प्रतीहीति स्थितम् । यच्च "खमोपमं वै सकलम्" इत्यादि । तत्रापि यस्तव चेतसि वतते नासावर्थः, किन्तु भवभयोद्विग्नाना भव्यसत्त्वानां धन-कनक-पुत्र-कलत्रायसारतामात्रप्रतिपादनं तेन विधीयते, येन ते तदास्था परित्यज्य मुक्तये प्रवर्तन्ते, न पुनस्तत्र भूताभावः प्रतिपाद्यते । इति मुश्च संशयम , प्रतिपद्यस्व भूतास्तित्वमिति ।। १७६८।' ततो व्यपगतसंदेहोऽसौ संवेगमागतो व्यक्तः किं कृतवान् ? इत्याह 'छिन्नम्मि संसयम्मि जिणेण जरा-मरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं ॥१७६९॥ व्याख्यानं पूर्ववत् ॥ इति व्यशीतिगाथार्थः ।। १७६९ ।। ॥ इति चतुर्थो गणधरवादः समाप्तः ॥ अथ पञ्चमगणधरवक्तव्यतामभिधित्सुराह ते पव्वइए सोउं सुहुम आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि॥ १७७० ॥ व्याख्या पूर्ववत् , नवरं सुधर्मनामा द्विजोपाध्यायोत्र वक्तव्यः ॥ १७७० ।। आगतस्य तस्य भगवता किं कृतम् ? इत्याह आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसी णं ॥१७७१॥ व्याख्या पूर्ववदिति ।। १७७१ ।। आभाष्य किमुक्तोऽसौ ? इत्याह "किं मन्ने जारिसोइहभवम्मि सो तारिसो परभवे वि । वेयपयाण य अत्थं न याणसी तेसिमोअत्थो॥१७७२॥ १ गाथा १६०४ । २ तान् प्रबजितान् श्रुत्वा सुधर्माऽऽगच्छति जिनसकाशम् । व्रजामि वन्दे वन्दित्वा पर्युपासे ॥ १७७० ॥ ३ गाथा १६०९। ४ किं मन्यसे यादश इहभवे स तादृशः परभवेऽपि । वेदपदानां चार्थ न जानासि तपामयमर्थः ॥ १७७२ ॥ ७४९॥ Jan Education Intera For Personal and Private Use Only www.janeibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy