________________
विशेषा० ||७४८ ।।
Jain Educationa Internationa
पञ्चभिः समितिभिः समितः, तिसृभिर्गुप्तिभिश्च गुप्तो ज्ञानी जीवस्वरूप- तद्रक्षा क्रियाभिज्ञः सर्वथा जीवरक्षापरिणामपरिणतः, तत्प्रयतश्च कथमपि हिंसन्नप्यविहिंसको मतः । एतद्विपरीतलक्षणस्तु नाहिंसकः, किन्तु हिंस्र एवायम्, अशुभपरिणामत्वात् । बाह्यजीवहिंसायास्तु जीवोपरोधेन जीवस्य कीटादेरुपरोधेनोपघातेन संपत्तिर्भवतु मा भूद् वा 'स' तस्य साध्वादेः, हिंसकत्वे तस्या अनैकान्तिकत्वादिति ।। १७६५ ।।
कुतस्तस्या अनैकान्तिकत्वम् ? इत्याह
सुभो जो परिणामोसा हिंसा सो उ बाहिरनिमित्तं । को वि अवेक्वेज नवा जम्हाऽणेगंतियं बज्झं ॥ १७६६ ॥ यस्मादिह निश्रयंनयतो योऽशुभपरिणामः स एव 'हिंसा' इत्याख्यायते । स च वाह्यासत्वातिपातक्रियालक्षणं निमित्तं कोsप्यपेक्षते, कोsपि पुनस्तन्निरपेक्षोऽपि भवेत्, यथा तन्दुलमत्स्यादीनाम्; तस्मादनैकान्तिकमेव बाह्यनिमित्तम्, तत्सद्भावेऽप्यहिंसकत्वात्, तदभावेऽपि च हिंसकत्वादिति ।। १७६६ ।।
नन्वेवं तर्हि वाह्यो जीवघातः किं सर्वथैव हिंसा न भवति ? । उच्यते कश्चिद् भवति, कश्चित्तु न । कथम् १ इत्याह-परिणामऊ जीवाबाहो ति तो मयं हिंसा । जस्स उन सो निमित्तं सतो वि न तस्स सा हिंसा || १७६७॥
ततस्तस्माद् यो जीवावाधोऽशुभपरिणामस्य हेतुः, अथवा, अशुभपरिणामो हेतुः कारणं यस्यासावशुभपरिणामहेतुर्जीवावाधो जीवघातः, स एव 'हिंसा' इति मतं तीर्थकर गणधराणाम् । यस्य तु जीवावाधस्य सोऽशुभपरिणामो न निमित्तं स जीवावाधः सन्नपि तस्य साधोन हिंसेति ।। १७६७ ॥
अमुमेवार्थे दृष्टान्तेन द्रढयन्नाह -
दादओ रइफला न वीयमोहस्स भावसुद्धीओ । जह, तह जीवाबाहो न सुद्धमणसो विहिंसाए || १७६८ ॥
१ अशुभो यः परिणामः सा हिंसा स तु बाह्यनिमित्तम् । कोऽप्यपेक्षेत नवा यस्मादनैकान्तिकं वाह्यम् ॥ १७६६ ॥ २ घ. ज. 'यतो' ।
३ अशुभपरिणाम हेतु जवाबाध इति ततो मत हिंसा यस्य तु न स निमित्तं सन्नपि न तस्य सा हिंसा ॥। १७६७ ॥
४ शब्दादयो रतिफला न वीतमोहस्य भावशुद्धेः । यथा, तथा जीबाबाधो न शुद्धमनसोऽपि हिंसाये ॥ १७६८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥७४८||
www.jainetbrary.org