________________
राजाराम
Oceae
इव मृत कार्यमुपजायते । तथा, सुख-संवित्त्यादेश्च नायममूर्तः । इदमुक्तं भवति- कर्म तावद् भवता नेष्यते, स्वभाववादित्वात् । ततश्च विशेषा. शरीरादीनि, सुख-दुःखसंवित्यादीनि च स्वभावस्यैव कार्याण्येष्टव्यानि, तस्य चामूर्तत्वे नेतान्युपपद्यन्ते । ततो यथा द्वितीयगणधरवादे
कार्यस्य मूर्तत्वात् , सुखसंविच्यादेश्च कर्मणो मूर्तत्वं साधितम् , तथेह स्वभावस्यापि तत् साधनीयम् । तथा च प्रागुक्तम्॥७५५॥
'आह नणु मुत्तमेवं मुत्तं चिय कज्जमुत्तिमत्ताओ । इह जह मुत्तत्तणओ घडस्स परमाणवो मुत्ता ॥१॥
तह सुहसंवित्तीओ संबंधे वेयणुब्भवाओ य । बज्झबलाहाणाओ परिणामाओ य विष्णेयं ॥ २ ॥ इति ॥१७८९।।१७९०॥ अथ निष्कारणता स्वभाव इति द्वितीयविकल्पमधिकृत्याह-- अहवाऽकारणउ च्चिय सभावओ तो विसरिसया कत्तो। किमकारणओ न भवे विसरिसया किं व विच्छित्ती?॥१७९१॥
अथ स्वभावत एव भवोत्पत्तिरित्यत्र 'अकारणत एव' इत्ययमर्थोऽभिप्रेतः, 'तो वित्ति' तथापि हन्त ! परभवे सदृशता - कुतः। कोऽभिप्रायः ? इत्याह- यथाऽकारणतः सदृशता भवति, तथा किमित्यकारणत एव विसदृशता न स्यात् । अकस्माच्चाकाB रणतो भवविच्छित्तिः कस्माद् न स्यात् ।। अकस्माच भवन् खरविषाणादिरपि भवेत् , शरीरादीनां चाकारणतो भवतामभ्रादीनामिव प्रतिनियताकारत्वादिरूपता न स्यात् । तस्माद् नाकारणता स्वभाव इति ॥ १७९१॥
अथ वस्तुधर्मोऽसाविति तृतीयविकल्पमाश्रित्याह--
अहव सहावो धम्मो वत्थुस्स, न सो वि सरिसओ निच्चं । उप्पाय-द्विइ-भंगा चित्ता जं वत्थुपज्जाया ॥१७९२|| _ अथ वस्तुनो धर्मः स्वभावः, सोऽपि सर्वदैव सदृशो न घटते, इति कथं सर्वदैव शरीरादीनां सदृशता जनयेत् । कथं पुनरस्य सदैव सदृशता न घटते ? इत्याह- 'उप्पायेत्यादि' यद् यस्मादुत्पाद-स्थिति-भङ्गादयश्चित्रा वस्तुपर्यायाः, न च ते सदैवाऽवस्थितसादृश्याः, नीलादीनां वस्तुधर्माणां प्रत्यक्षत एवान्यान्यरूपतया परिणतिदर्शनात् । किश्च, वस्तुधर्मोऽसौ भवत्स्वभाव आत्मधर्मो वा स्यात,
१ प. ज. 'खस'। २ गाथा १६२५, १६२६ । ३ अथवाऽकारणत एव स्वभावतस्ततोऽपि सदशता कुतः । किमकारणतो न भवेद् विसदृशता किंवा विच्छित्तिः ॥ ११॥
A ४ अधवा स्वभावो धर्मों वस्तुनः, न सोऽपि सदृशको नित्यम् । उत्पाद-स्थिति-भजाबिना पद् वस्तुपर्यायाः ॥ १७९२ ॥
७५५||