________________
विशेषा०
बृहद्वृत्तिः
॥७५६॥
पुद्गलधर्मो वा ? । यद्यात्मधर्मः, तर्हि नासौ शरीरादीनां कारणम् , अमूर्तत्वात् , आकाशादिवत् । अथ पुद्गलधर्मः, तईि कमैवासी, कर्मणोऽपि हि पुद्गलास्तिकायधर्मत्वेनास्माभिरभ्युपगतत्वादिति ॥१७९२।।
किञ्च, कम्मस्स वि परिणामो सुहम्म ! धम्मो स पोग्गलमयस्स। हेऊ चित्तो जगओ होइ सहावो त्ति को दोसो ?॥१७९३॥
सुधर्मन् ! असौ वस्तुधर्मो भवत्स्वभावो धर्मो भवतु, को दोषः ?-न कश्चित् , युक्तियुक्तत्वात् । किंविशिष्टो धर्मः ? इत्याहपरिणामः । कस्य । कर्मणः । कथंभूतस्य । पुद्गलमयस्य । कथंभूतो यः कर्मपरिणामः ? इत्याह-हेतुः । कस्य ?। जगतः- जगद्वचित्र्यस्य । तदेवं कर्मलक्षणस्य वस्तुनः कर्मपरिणामरूपो धर्मो भवति स्वभावः, नात्र काचिद् दोषापत्तिः । अस्माकमपि समतोऽयमर्थः, केवलं सर्वदा सदृशोऽसौ न भवति, किन्तु चित्रो मिथ्यात्वादिहेतुवैचित्र्याद् विचित्रो विविधस्वभावः । अतो न तस्मात् परभत्रे सादृश्यमेव, किन्तु विचित्ररूपतेति ॥ १७९३ ॥ यदिवा, किमनेनाव्यापकेन, मिथ्यारूपेण चैकान्तवादेन ? । सर्वव्यापकम् , अवितथरूपं चानेकान्तवादमेव दर्शयन्नाहअहवा सव्वं धत्थु पइक्खणं चिय सुहम्म ! धम्मेहिं । संभवइ वेइ केहि वि केहि वि तदवत्थमचंतं ॥१७९४॥ तं अप्पणो वि सरिसं न पुव्वधम्मेहिं पच्छिमिल्लाणं । सयलस्स तिहुअणस्स च सरिसं सामण्णधम्महि ॥१७९५॥
व्याख्या- अथवा, सुधर्मन् ! किमेक एव परभवः ?, सर्वमेव हि घट-पटादिकं भुवनान्तर्गतं वस्तु कैश्चित् पूर्वपर्यायैः समाना-ऽसमानपर्यायः प्रतिक्षणमुत्पद्यते, कैश्चित् पुनरुत्तरपर्यायैः समाना-समानपर्यायैर्येति व्युपरमति, कैश्चित्तु तदवस्थमेवास्ते । ततश्चैवं सति तद्वस्त्वात्मनोऽपि पूर्वपूर्वधमैरुत्तरोत्तरधर्माणां न सदृशम् , किं पुनरन्यवस्तूनाम् ?; सामान्यधर्मेस्तु सर्वस्यापि त्रिभुवनस्य समानम् , किं पुनरेकस्यैव निजपूर्वजन्मनः ? इति ॥ १७९४ ॥ १७९५ ॥ ___ततः किं स्थितम् ? इत्याह
कर्मणोऽपि परिणामः सुधर्मन् ! धर्मः स पुद्गलमयस्य । हेतुश्चित्रो जगतो भवति स्वभाव इति को दोषः ।। १७९३ ॥ २ अथवा सर्व वस्तु प्रतिक्षणमेव सुधर्मन् ! धर्मैः । संभवति व्येति कैरपि कैरपि तदवस्थमत्यन्तम् ॥ १७९४ ॥
वदात्मनोऽपि सरशं न पूर्वधर्मः पाश्चात्यानाम् । सकलस्य त्रिभुवनस्य च सदृशं सामान्यधमैंः ।। १७९५ ॥
॥७५६।
Jain Education Internat
Forson and Private Use Only
ISANwww.jainelibrary.org