________________
विशेषा
बृहद्वत्तिः ।
॥७५७||
को सव्वहेव सरिसो असरिसो वा इहभवे परभवे वा ? सरिसासरिसं सव्वं निच्चानिच्चाइरूवं च ॥१७९६॥
को ह्यर्थोऽर्थान्तरैरात्मना वा सहेहभवेऽपि सर्वथा सदृशोऽसदृशो वा, किं पुनः परभवे । तस्मात् सर्वमपि वस्तु सर्वेणापि सह समाना-ऽसमानरूपमेवेहभवेऽपि, इति कुतः परभवे सादृश्यमेव प्रतिज्ञायते भवता ? इति भावः। तथा, सर्वमपि नित्या-अनित्याधनन्तधर्मात्मकमिति ॥ १७९६ ॥ अमुमेवार्थ दृष्टान्तेन प्रतिपादयितुमाहजेह नियएहिं वि सरिसोन जुवा भुवि बाल-वुड्ढधम्मेहिं । जगओ वि समोसत्ताइएहिं तह परभवे जीवो॥१७९७॥
यथेह युवा निजैरप्यतीता-ऽनागाल-वृद्धत्वादिपर्यायैरात्मनोऽपि सर्वथा न समानः, सत्तादिभिस्तु सामान्यपर्यायैर्जगति न केनचिद् न समानः, तथायमपि जीवः परलोकं गतः सर्वेणापि सह समाना-ऽसमानरूप एव, इति कुतः सर्वथा सादृश्यम् ? इति ॥ १७९७॥
एतदेव दृष्टान्तेन भावयति
मणुओ देवीभूओ सरिसो सत्ताइएहिं जगओ वि । देवाईहि विसरिसो निच्चानिच्चो वि एमेव ॥१७९८॥
मनुष्यो मृत्वा देवत्वमापन्नो जगत्त्रयस्यापि सत्तादिभिः पर्यायैः सदृशः, देवत्वादिभिस्तु विसदृशः, इति नैकान्तेन कापि सदृशता । तथा, द्रव्यतयाऽसौ नित्यः, पर्यायतया त्वनित्य इत्याद्यपि वक्तव्यम् । अत्राह- नन्वस्माभिरपि नैकान्तेन परभवे सादृश्यमभ्युपगम्यते, किन्तु समानजात्यन्वयमात्रमेवेष्यते, पुरुषादिमतः पुरुषादिरेव भवतीति । एतदप्ययुक्तम् , कर्मजनितो हि परभव इति साधितम् । तच्च मिथ्यात्वादिविचित्र हेतुजन्यत्वाद् विचित्रमेवेति, अतस्तजन्यः परभवो विचित्र एव युज्यते, न तु समानजात्यन्वयः सिध्यतीति ।। १७९८ ॥
,कः सर्वथैव सरशोऽसरशो वेहभवे परभवे वा ! । सदशासदृशं सर्वं नित्यानित्यादिरूपं च ॥ १७९६ ॥ २ यथा निजकैरपि सदशो न युवा भुवि वाल-वृद्धधमैंः । जगतोऽपि समः सत्तादिकैस्तथा परभवे जीवः ॥ १७९७ ॥ । मनुजो देवीभूतः सदशः सत्तादिकैर्जगतोऽपि । देव स्वादिभिर्विसहमो नित्यानित्योऽप्येवमेव ॥ १.९८ ॥
८॥७५७||
Jai Education Internat
For Personal and Private Use Only
AW
ww.jaineltrary.org