________________
विशेषा०
॥७५८ ।।
Jain Educationa Internation
किञ्च,
उक्करिसा ऽवक्करिसा न समाणाए वि जेण जाईए । सरिसग्गाहे जम्हा दाणाइफलं विहा तम्हा ॥ १७९९ ॥ सदृशग्रहे समानजातीयताग्रहे सति समानायामपि जातौ येन यस्मादीश्वर-दरिद्र कुलीना-कुलीनादिरूपेणोत्कर्षा ऽपकर्षो न घटां प्राञ्चतः। यो हि यादृश इहभवे, स यदि परभवेऽपि तादृश एव, तर्हि य इह भवे ईश्वरः स परभवेऽपि तादृश एव, एवं दरिद्रादिष्वपि वाच्यम् । तत
भवात् परभवे सर्वप्रकारैरप्युत्कर्षापकर्षो न स्याताम्, किन्त्वेकान्तसदृशत्वे भवेत् । 'तम्ह त्ति' तस्माद् मोक्तव्योऽयं सादृश्यग्रह इति मक्रमाद् द्रष्टव्यम् । अथेत्थमाचक्षीथाः- मा भूतामुत्कर्षापकर्षो का नो हानिः ? इत्याह- 'जम्हा दाणाइफलं विह त्ति' चकारस्य गम्यमानत्वाद् यस्माच्चेत्थं परत्रोत्कर्षा ऽपकर्षयोरभावे दानादिफलं वृथा संपद्यते । लोको हि परत्र देवादिसमृद्धिमाप्त्याऽऽत्मन उत्कर्षार्थ दानादिप्रवृत्तिं विदधाति । यदि चोक्तयुक्त्योत्कर्षायभावाद् दरिद्रो दान- तपस्-तीर्थावगाहनाद्यपि कृत्वाऽमुत्र दरिद्र एव स्यात्, तहिं क तद्दानादिफलम् ? इत्यपार्थिका दानादौ प्रवृत्तिः, तस्माद् न विधेयः सादृश्यग्रह इति ।। १७९९ ।
अपिच, एतस्मिन् सादृश्यग्रहे वेदपदानामप्यप्रामाण्यमापद्यत इति दर्शयन्नाह -
जं च सिगालो वइ एस जायए वेयविहियमिच्चाइं । सग्गीयं जं च फलं तमसंबद्ध सरिसयाए । १८०० ॥
यच्च "शृगालो वै एष जायते यः सपुरीषो दह्यते" इत्यादि वेदविहितं तदपि परभवसदृशताग्रहेऽसंबद्धमेव स्यात्, पुरुषादेरमुत्र शृगालतयानुपपत्तेः, तथा, यदपि " अग्निहोत्रं जुहुयात् स्वर्गकामः" तथा " अग्निष्टोमेन यमराज्यमभिजयति" इत्यादिकं स्वर्गीयफलसूचकत्वात् स्वर्गीयं फलं तदप्यसंबद्धं भवेत्, मनुष्यस्य त्वदभिप्रायेण देवत्वानुपपत्तेरिति । "पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वम्" इत्यादीनां च वेदपदानामयमर्थ:- कोऽपि पुरुषः खल्विह जन्मनि प्रकृत्या भद्रको विनीतः सानुक्रोशोऽमत्सरश्च मनुष्यनाम-गोत्रे कर्मणी बद्ध्वा मृतः सन् पुरुषत्वमश्नुते, न तु नियमेन सर्व एव अन्यस्यान्यकर्मवशगस्यान्यथाप्युत्पत्तेः । एवं पशवोऽपि केचिद् मायादिदोषवशात् पशुनाम गोत्रे कर्मणी बद्ध्वा परभवे पशवो जायन्ते, न तु सर्वेऽपि, नियमेन कर्मापेक्षित्वाज्जीवगतेरिति । तदेवं तस्यापि च्छिन्नः संशयः ॥ १८०० ॥
१ उत्कर्षापकर्षो न समानायामपि येन जातौ । सदृशग्रहे यस्माद् दानादिफलं वृथा तस्मात् ॥ १७९९ ॥ १ यच शृगालो वै एष जायते वेदविहितमित्यादि । स्वर्गीयं यच फलं तदसंबद्धं सदृशतायाम् ॥ १८५०
For Personal and Private Use Only
बृहद्वृत्तिः ।
।।७५८ ।।
www.jainellbrary.org