________________
विशेषा
॥७५३।।
ततश्च तत्फलाभावाद् न परलोके जन्तुवैसदृश्यम् । अत्रोत्तरमाह- 'तो सम्बहा न सरिसत्तं ति' तत एवं सति यत् तवाभिप्रेतं तत् । सर्वथा परभचे जीवानां सदृशत्वं न स्यात् । तद्धि कर्मणा जन्यते, तच्च नास्ति, पारभविकक्रियाणां त्वया निष्फलत्वाभ्युपगमात् , बृहदत्तिः तनिष्फलत्वे च कर्माभावात् । अथ कर्माभावेऽपि भवेत् सादृश्यम् , ताकृतस्यैव तस्य निर्हेतुकस्याऽऽगमः प्राप्नोति, कृतस्य च दानहिंसादिक्रियाफलरूपस्य कर्मणो नाशः प्रसजति । अथवा, मूलत एवं कर्मणामभावः प्राप्तः-दान-हिंसादिक्रियाणां निष्फलत्वाभ्युपगमाद् मूलत एवं कर्मणो बन्धोऽपि न स्यादिति भावः । ततः किम् ? इत्याह- कर्माभावे च कारणाभावात् कुतो भवान्तरम् , तदभावे च दूरोत्सारितमेव सादृश्यम् । अथ कर्माभावेऽपि भव इष्यते, तर्हि निष्कारण एवासौ स्यात् । यदि चैवमयमिष्येत, ततो नाशोऽपि तस्य भवस्य निष्कारण एव स्यात् , अतो व्यर्थस्तपो-नियमाद्यनुष्ठानप्रयासः । निष्कारणे च भवेऽभ्युपगम्यमाने वैसदृश्यमपि जीवानां निकारणं किं नेष्यते, विशेषाभावात् ? इति ॥ १७८३ ।। १७८४ ।।
अथ प्रेरकमाशय परिहरनाह
कैम्माभावे वि मई को दोसो होज्ज जइ सभावोऽयं । जह कारणाणुरूवं घडाइ कज्जं सहावेणं ॥ १७८५॥ अथ परस्यैवंभूता मतिः स्याद् यदुत- कर्माभावेऽपि यदि भवसद्भावरूपः स्वभाव एवायं भवेत् तर्हि को दोषः स्यात् ?-- विनापि कर्म यदि स्वभावादेव भवः स्यात् तर्हि किं दूषणं भवेत् - न किश्चिदित्यर्थः । दृष्टान्तमाह- यथा कर्म विनापि मृत्पिण्डादिकारणानुरूपं घटादि कार्य स्वस्वभावेनैवोत्पद्यमानं दृश्यते, तथा सदृशप्राणिजन्मपरम्परारूपो भवोऽपि स्वभावादेव भविष्यति । अत्रोच्यते| ननु घटोऽपि न स्वभावत एव जायते, कठ-करणाद्यपेक्षित्वात् तस्य । ततश्चेहापि कर्तुरात्मनः पारभविकस्य च शरीरादिकार्यस्य करणं संभाव्यते, तच्च कर्तृ-कार्याभ्यां भिन्नं लोकेऽपि दृश्यते, कुलाल-घटाभ्यां चक्रादिवत् , यच्चेहात्मनः शरीरादि कार्य कुर्वतः करणं तत् कर्मेति प्रतिपद्यख । स्यादेतत् , घटादेः प्रत्यक्षसिद्धत्वाद् भवन्तु कुलालादयः कर्तारः, शरीरादि कार्य त्वभ्रादिविकारवत् स्वभावतोऽपि भविष्यति, ततो न कर्मसिद्धिः । तदयुक्तम् , यतो न स्वाभाविकं शरीरादि, आदिमत्पतिनियताकारत्वात्, घटवदिति । किञ्च, 'कारणानुरूपमेव कार्यम्' इत्येवं यत् परभवे सादृश्यं त्वयाऽभ्युपगम्यते, तदपि खभाववादिनस्तवाभ्रादिविकारदृष्टान्ते परिहीयते, अभ्रादिविकारस्य स्वकारणभूतपुद्गलद्रव्यादतिविलक्षणत्वादिति ॥ १७८५ ॥
१ क. ग. 'मिष्यते'। २ प.ज. 'रकामाद्द'। ३ काभावेऽपि मतिः को दोषो भवेद् यदि स्वभावोऽयम् । यथा कारणानुरूपं घटादि कार्य स्वभावेन ॥ १७८५ ॥ ४ ज.'र्तृकार' ।
७५३॥
Ford PU Only
न
www.janelibrary.org