SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहवात्तिः। ॥७५२॥ इह विचित्रा कर्मपरिणतिः, पुद्गलपरिणामात्मकत्वात् , इह यत्पुद्गलपरिणामात्मकं तद् विचित्रपरिणतिरूपं दृश्यते, यथा बाह्योऽभ्रादिविकारः, पृथिव्यादिविकारो वा, यत्तु विचित्रपरिणतिरूपं न भवति तत् पुद्गलपरिणामात्मकमपि न भवति, यथाऽऽकाशम् , या पुनः पुद्गलपरिणामसाम्येऽपि कर्मणामावरणादिभेदेन विशेषतो विचित्रता सा तद्धतुवैचित्र्यादवगन्तव्या, विचित्राश्च मिथ्यात्वादयः प्रदेष-निववादयश्च कर्महेतव इति ।। १७८० ।। अथ पराभ्युपगमेनैव परभवे जीवानां वैसदृश्यं साधयन्नाह-- अहवा इहभवसरिसो परलोगो वि जइ सम्मओ तेणं । कम्मफलं पि इहभवसरिसं पडिवज्ज परलोए॥१७८१॥ किं भणियमिह मणुया नाणागइकम्मकारिणो संति । जइ ते तप्फलभाजो परे वि तो सरिसया जुत्ता॥१७८२॥ व्याख्या- अथवा, यदीहभवसदृशः परलोकोऽपि संमतो भवतः, 'तेणं ति' ततः कर्मफलमपि परलोक इहभवसदृशमिहत्यविचित्रशुभा-ऽशुभक्रियानुरूपं विचित्रं प्रतिपद्यस्खेति । एवं मुकुलितं प्रतिपाद्यैतदेव भावयति- 'किं भणियमित्यादि' किमेतावता प्रतिपादितं भवति । इह तावद् मनुष्या नानागतिहेतुविचित्रक्रियानुष्ठायिनः सन्तीति प्रत्यक्षत एव लक्ष्यन्ते । ततो यदि ते परलोके तत्तक्रियाफलभाज इष्यन्ते, ततो यथेहत्यक्रियाणामसदृशता, तथा परलोकगतजन्तूनामपि सैव युक्ता, ननु योऽत्र यादृशः स परत्रापि तादृश एव भवति ॥ १७८१ ॥ १७८२ ॥ अत्र पराभिप्रायमाशङ्कय परिहरन्नाह-- अह इह सफलं कम्मं न परे तो सबहान सरिसत्तं । अकयागम-कयनासा कम्माभावोऽहवा पत्तो॥१७८३॥ कम्माभावे य कओ भवंतरं, सरिसया व तदभावे । निक्कारणओ य भवो जइ तो नासो वि तह चेव ॥१७८४॥ अथैवं ब्रूषे- इह सफलं कर्मेति- इहभवसंबन्ध्येव कृष्यादिक्रियारूपं कर्म सफलम् , न तु पारभविकदानादिक्रियारूपं कर्म । , अधवेहभवसदृशः परलोकोऽपि यदि संमतस्तेन । कर्मफलमपीहभवसदृशं प्रतिपद्यस्व परलोके ॥ १७४१॥ किं भणितमिह मनुजा नानागतिकर्मकारिणः सन्ति । यदि ते तत्फलभाजः परस्मिन्नपि ततः सदृशता युक्ता ॥ १७८२ ॥ २ अथेह सफलं कर्म न परसिंशतः सर्वथा न सदृशत्वम् । अकृतागम कृतनाशौ कर्माभावोऽथवा प्राप्तः ॥ १७८३ ॥ कर्माभावे च कुतो भवान्तरं, सदृशता वा तदभावे । निष्कारणकश्च भवो यदि ततो नाशोऽपि तथैव ॥ १७४४ ॥ ॥७५२॥ Jan Education interna Foco and Private Use Only www.jainelbrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy