________________
मरा
R
विशेषा.
बृहदत्तिः ।
॥७५१॥
मालयसम्म
का
अहवा जउ च्चिय बीयाणुरूवजम्मं मयं तओ चेव । जीवं गिण्ह भवाओ भवंतरे चित्तपरिणामं ॥ १७७६ ।। जेण भवंकुरबीयं कम्मं चित्तं च तं जओऽभिहियं । हेउविचित्तत्तणओ भवंकुरविचित्तया तेणं ॥१७७७॥
जइ पडिवन्नं कम्मं हेउविचित्तत्तओ विचित्तं च।तो तप्फलं वि चित्तं पवज्ज संसारिणो सोम्म !॥१७७८॥
व्याख्या- अथवा, यत एव बीजानुरूपं कारणानुगुणं कार्याणां जन्म मतम् , तत एवेह भवाद् भवान्तरे जीवं गृहाण प्रतिपद्यस्व । कथंभूतम् ? जाति-कुल-बलै-श्वर्य-रूपादिविचित्रपरिणामम् । यदि नाम बीजानुरूपं जन्म, तथापि कथं भवान्तरे विचित्रता जीवानाम् ?, इत्याह-'जेण भवंकुरेत्यादि' येन यस्माद् नारक-तिर्यगादिरूपेण भवनं भवः स एवाकुर इवाङ्कुरस्तस्य बीजमिह कर्मैवावसे यम् , तच्च मिथ्यात्वा-ऽविरत्यादिहेतुवैचिच्याद् विचित्रं यस्माद् मयाभिहितम्, तस्मात् तज्जन्यस्य भवाङ्करस्यापि जात्यादिभेदेन विचित्रता । ततो यदि त्वया कर्म प्रतिपन्नम् , हेतुवैचित्र्याच यदि तद्वैचित्र्यमभ्युपगतम् , ततः संसारिणो जीवस्य तत्फलमपि नारक-तिर्यङ्-मनुष्या-ऽमररूपेण भवनरूपं सौम्य ! विचित्ररूपं प्रतिपद्यस्वेति ।। १७७६ ॥ १७७७ ।। १७७८ ॥
अत्र प्रमाणमुपरचयन्नाह
चित्तं संसारित्तं विचित्तकम्मफलभावओ हेऊ। इह चित्तं चित्ताणं कम्माण फलं व लोगम्मि ॥१७७९॥
चित्र संसारिजीवानां नारकादिरूपेण संसारित्वमिति प्रतिज्ञा । विचित्रस्य कर्मणः फलरूपत्वादिति हेतुः । इह यद् विचित्रहेतुकं. तद् विचित्रमुपलभ्यते, यथेह विचित्राणां कृषि-वाणिज्यादिकर्मणां फलं लोक इति । तदेवं कर्मवैचिच्याद् भववैचित्र्ये प्रमाणमुक्तम् ॥१७७९॥
अथ कर्मणो वैचित्र्ये प्रमाणमाहचित्ता कम्मपरिणई पोग्गलपरिणामओजहा बज्झा । कम्माण चित्तया पुण तद्धे उविचित्तभावाओ॥१७८०॥ , अथवा यत एव बीजानुरूपजन्म मतं तत एव । जीवं गृहाण भवाद् भवान्तरे चित्रपरिणामम् ॥ १७७६ ॥ येन भवाकुरबीजं कर्म चित्रं च तद् यतोऽभिहितम् । हेतुविचित्रत्वतो भवाङ्करविचिन्नता तेन ॥ १७७७ ॥ यदि प्रतिपनं कर्म हेतुविचित्रत्वतो विचित्रं च । ततस्तत्फलमपि चित्रं प्रपद्यस्व संसारिणः सौम्य ! ॥ १७७८ ॥ २ घ. ज. 'नुगतं का'। ३ चित्र संसारित्वं विचित्रकर्मफलभावतो हेतोः । इह चित्रं चित्राणां कर्मणां फलमिव लोके ॥ १७७९ ॥ चित्रा कर्मपरिणतिः पुजलपरिणामतो यथा बाझा । कर्मणां चित्रता पुनस्तद्धेतुविचित्रभावात् ।। १७८०॥
७५१॥
कामासाहाराबासकार
JainEducatioria.Intematic
For Personal and Private Use Only
www.jainelbrary.ary