________________
विशेषा० ॥७६४॥
Jain Education Internation
'यद् यस्माज्जीव- कर्मसंयोगसंतानोऽनादिस्तेन तस्मादनन्तोऽपि' इति नायमेकान्तः, यतोऽनादिरपि संयुक्तयोर्वस्तुनोः संतानः सान्तोऽपि कचिद् दृश्यते, यथा बीजाङ्कुरादीनां संतान इति ।। १८१७ ।।
तथाहि-
अण्णयरमणिव्वत्तियकज्जं बीयं- कुराण जं विहयं । तत्थ हओ संताणो कुक्कुडि-अंडाइयाणं च ॥ १८१८ ॥ जह वह कंचणो-वलसंजोगोऽणाइसंतइगओ वि । वोच्छिज्जइ सोवायं तह जोगो जीव-कम्माणं ॥ १८१९ ॥ बीजा-रयोर्मध्येऽन्यतरदनिर्वर्तितकार्यमेव यद् विहतं व्यवच्छिन्नं तत्रानयोर्हतो व्यवच्छिन्नः संतानः । एवं कुक्कुट्यऽण्डयोः, पिता-पुत्रयोरपि च वक्तव्यम् । यथा वा काश्चनो- पलयोरनादिकालमवृत्तसंतानभावगतोऽपि संयोगः सोपायमनितापाद्युपायाद् व्यवच्छियते, तथा जीव- कर्मणोरपि संयोगोऽनादिसंतानगतोऽपि तपः- संयमाद्युपायाद् व्यवच्छिद्यते इति न मोक्षाभाव इति ।। १८१८ ।। १८१९ ॥
अत्र परस्य प्रश्नमुपन्यस्योत्तरमाह -
तौ किं जीव-नहाण व अह जोगो कंचणो-वलाणं व १ । जीवरस य कम्मरस य भण्णइ दुविहो वि न विरुद्धो ॥ १८२०॥ पढमोऽभव्वाणं चिय भव्वाणं कंचणो वलाणं व । जीवत्ते सामण्णे भव्वोऽभव्यो त्ति को भेओ १ ॥ १८२१ ॥
आह- जीवस्य कर्मणश्च योऽयं परस्परं योगः सोऽनादिः सन् किं जीव-नभसोरिवानन्तः, अथ काञ्चनो- पलयोरिव सान्तोऽपि स्यात् १, उभयथापि दर्शनात् किमत्र प्रतिपद्यामहे । भण्यतेऽत्रोत्तरम् - द्विधाऽप्ययमविरुद्धः, तत्र प्रथमोऽनाद्यनन्तरूपोऽभव्यानां द्रष्टव्यः । यस्तु काञ्चनो-पलयोरिवानादिः सान्तोऽसौ भव्यानां विज्ञेयः । आह- ननु जीवत्वसाम्येऽपि 'अयं भव्यः' 'अयं चाभव्यः' इति किंकृतोऽयं विशेष: ? । न च वक्तव्यम् - यथा जीवस्वे समानेऽपि नारक तिर्यगादयो विशेषास्तथा भव्या-भव्यत्वविशेषोऽपि
१ अन्यतरदनिर्वर्तितकार्य बीजा-रयोर्यद् विहतम् । तत्र हतः संतानः कुक्कुट्यः ऽण्डादिकानां च ॥ १८१८ ॥ २ घ. ज. 'योरन्य' । यथा वह काञ्चनो-पलसंयोगोऽनादिसंततिगतोऽपि व्यवच्छिद्यते सोपायं तथा योगो जीव-कर्मणोः ॥ १८१९ ॥
३ ततः किं जीव-नभसोरिवाथ योगः काञ्चनो-पलयोरिव ? जीवस्य च कर्मणश्च भण्यते द्विविधोऽपि न विरुद्धः ॥ १८२० ॥ प्रथमोऽभव्यानामेव भव्यानां काञ्चनो- पलयोरिव। जीवत्वे सामान्ये भव्योऽभव्य इति को भेदः ? ॥ १८२१ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥७६४॥
www.jaincibrary.org.