________________
विशेषा०
॥७६३॥
Jain Educationa Internationa
शिष्टम् १ इत्याह- यदग्रेतनस्य देहस्य कारणम्, यच्चान्यस्यातीतस्य देहस्य कार्यमिति । एवमनादौ संसारे न कचिद् विश्राम्यति, अतोऽनादिर्देह-कर्मसंतान इति । आह-- ननु बन्ध-मोक्षाविह साधयितुं प्रस्तुतौ ततः कर्मसंतानस्यानादित्वसाधनमसंबद्धमिव लक्ष्यते । तदयुक्तम्, अभिप्रायापरिज्ञानात्, न कृतं कर्म संभवति 'क्रियत इति कर्म' इति व्युत्पत्तेः यच्च तस्य करणमसावेव बन्ध इति कथं न तत्सिद्धिः १ ॥ १८१४ ।।
ननु यदि क्रियत इति कर्मोच्यते, तर्हि कोऽस्य देहस्य च कर्ता १, इत्याह
कत्ता जीवो कम्मरस करणओ जह घडस्स घडकारो । एवं चिय देहस्स वि कम्मकरणसंभवाउ ति ॥ १८१५ ।। कर्ता चात्र कर्मणो जीवः, करणसमेतत्वात् दण्डादिकरणयुक्तकुलालवद् घटस्य करणं चेह जीवस्य कर्म निर्वर्तयतः शरीरमवगन्तव्यम् | एवं देहस्याप्यात्मैव कर्ता, कर्मरूपं करणं कर्मकरणं तत्संभवात् तद्युक्तत्वात्, दण्डादिकरणसमेत कुलालवदिति॥१८१५।।
अथात्र मे परिहारं चाह
मं करणमसिद्धं व ते मई कज्जओ तयं सिद्धं । किरियाफलओ य पुणो पडिवज्ज तमग्गिभूइ व्व ॥ १८१६ ॥
स्यादेतत्, अतीन्द्रियत्वेनासिद्धत्वात् कर्मणः करणत्वमसिद्धम् । तदयुक्तम्, यतः कार्यतः कार्यद्वारेण तत् सिद्धमेव, तथाहिविद्यमान करणं शरीरादि, कृतकत्वात्, घटादिवत् यच्चास्य करणं तत् कर्मैव तस्मादस्त्येव तत् । अथवा, विद्यमानकरणमेवात्मशरीरलक्षणं द्वयम्, कर्तृ-कार्यरूपत्वात्, कुलाल-घटादिवत् । यच्च कर्तुरात्मनः शरीरमुत्पादयतः करणं तत् कर्मेति कथं न तत्सिद्धिः । तथा, फलवत्यो दानादिक्रियाः, चेतनारब्धक्रियारूपत्वात्, कृष्यादिक्रियावत् यच्च तासां फलं तत् कर्म । इत्यग्निभूतिरिव त्वमपि प्रतिपद्यवेति ।। १८१६ ॥
चोक्तम्- 'योऽनादिः संयोगः सोऽनन्तो दृष्टः' इत्यादि । तत्राह -
जैं संताणोऽणाई तेणाणतोऽवि णायमेगंतो । दीसइ संतो वि जओ कत्थइ बीर्य-कुराईणं ॥ १८१७ ॥
१ कर्ता जीवः कर्मणः करणतो यथा घटस्य घटकारः । एवमेव देहस्यापि कर्मकरणसंभवादिति ॥ १८१५ ॥
२ कर्म करणमसिद्धं वा तव मतिः कार्यंतस्तत् सिद्धम् । क्रियाफलतश्च पुनः प्रतिपद्यस्व तदग्निभूतिरिव ॥ १८१६ ॥
३ यत् संतानोऽनादिस्तेनानन्तोऽपि नायमेकान्तः । दृश्यते सन्नपि यतः कुत्रापि बीजा ऽङ्कुरादीनाम् ॥ १८१७ ॥
For Personal and Private Use Only
बृहद्वतिः ।
॥७६३॥
www.jainelibrary.org