________________
विशेषा०
बृहद्वतिः ।
PHOTOHAGRA
॥७६५॥
भविष्यतीति, यतः कर्मजनिता एव नारकादिविशेषाः, न तु स्वाभाविकाः। भव्या भव्यत्वविशेषोऽपि यदि कर्मजनितस्तदा भवतु, को निवारयिता, न चैवमिति ॥ १८२० ॥ १८२१ ।।
एतदेवाह
होउ जइ कम्मकओ न विरोहो नारगाइभेउ ब्व। भणह य भवा-ऽभब्वा सभावओ तेण संदेहो ॥१८२२॥
भवतु वा यदि कर्मकृतोऽयं भन्या-ऽभव्यत्वविशेषो जीवानामिष्यते, नात्र कश्चिद् विरोधः, नारकादिभेदवत् , न चैतदस्ति, यतो 'भव्या ऽभव्याः स्वभावत एव जीवा न तु कर्मतः' इति यूयं भणथ, तेनास्माकं संदेह इति ।। १८२२ ॥
परेणैवमुक्ते सत्याह
देव्वाइत्ते तुल्ले जीव-नहाणं सभावओ भेओ । जीवा-ऽजीवाइगओ जह, तह भब्वे-यरविसेसो ॥ १८२३ ॥
यथा जीव-नभसोर्द्रव्यत्व-सत्त्व-प्रमेयत्व-ज्ञयत्वादौ तुल्येऽपि जीवा-जीवत्व-चेतना-चेतनत्वादिस्वभावतो भेदः, तथा जीवानामपि जीवत्वसाम्येऽपि यदि भव्या-ऽभव्यकृतो विशेषः स्यात् , तर्हि को दोषः ? इति ।। १८२३ ॥
इत्थं संबोधितो भव्यत्वादिविशेषमभ्युपगम्य दूषणान्तरमाह
एवं पि भव्वभावो जीवत्तं पिव सभावजाईओ। पावइ निच्चो तम्मि य तदवत्थे नत्थि निव्वाणं ॥ १८२४ ॥
नन्वेवमपि भव्यभावो नित्योऽविनाशी प्रामोति, स्वभावजातीयत्वात्- स्वाभाविकत्वात् , जीवत्ववत् । भवत्वेवमिति चेत् । तदयुक्तम् , यतस्तस्मिन् भव्यभावे तदवस्थे नित्यावस्थायिनि नास्ति निर्वाणम् , "सिद्धो न भन्यो नाप्यभव्यः" इति वचनादिति ॥१८२४॥
नैवम् , कुतः ? इत्याहजह घडपुव्वाभावोऽणाइसहावो वि सनिहणो एवं । जइ भव्वत्ताभावो भवेज्ज किरियाए को दोसो ? ॥१८२५॥
T
१ भवतु यदि कर्मकृतो न विरोधी नारकादिभेद इव । भणय च भव्या-ऽभव्यान् स्वभावतस्तेन संदेहः ॥ १८२२ ॥ २ व्यादित्वे तुल्ये जीव-नभसोः स्वभावतो भेदः । जीवा-उजीवादिगतो यथा, तथा भव्ये-तरविशेषः ॥ १८२३ ॥ ३ एवमपि भव्यभावो जीवत्वमिव स्वभावजातीयः । प्राप्नोति नित्यस्तस्मिंश्च तदवस्थे नास्ति निर्वाणम् ॥ १८२४ ॥ • यथा घटपूर्वाभावोऽनादिस्वभावोऽपि सनिधन एवम् । यदि भव्यत्वाभावो भवेत् क्रियया को दोषः ॥ १८२५ ॥
For Peso
Use