________________
विशेषा.
दृत्तिः।
॥७६६॥
करना
PROPERRRRC
यथा घटस्य प्रागभावोऽनादिस्वभावजातीयोऽपि घटोत्पत्तौ सनिधनो विनश्वरो दृष्टः, एवं यदि भव्यत्वस्यापि ज्ञान-तपःसचिवचरणक्रियोपायतोऽभावः स्यात् , तर्हि को दोषः संपद्यते - न कश्चिदिति ॥ १८२५ ॥
आक्षेप-परिहारौ पाहअणुदाहरणमभावो खरसंगं पिव मई न त जम्हा । भावो च्चिय स विसिट्ठो कुंभाणुप्पत्तिमेत्तेणं ॥ १८२६ ॥
स्याद् मतिः परस्य- नन्वनुदाहरणमसौ प्रागभावः, अभावरूपतयैवावस्तुत्वात् , खरविषाणवत् । तन्न, यस्माद् भाव एवासौ घटमागभावः, तत्कारणभूतानादिकालप्रवृत्तपुद्गलसंघातरूपः, केवलं घटानुत्पत्तिमात्रेण विशिष्ट इति ॥ १८२६ ॥
भवतु तर्हि घटमागभाववद् भव्यत्वस्य विनाशः, केवलमित्थं सति दोषान्तरं प्रसजति । किम् ? इत्याह__ ऐवं भव्वुच्छेओ कोट्ठागारस्स वा अवचउ त्ति । तं नाणंतत्तणओऽणागयकालं-बराणं व ॥ १८२७ ॥
नन्वेवं सति भव्योच्छेदः- भव्यजीवैः संसारः शून्यः प्राप्नोति, अपचयात् । कस्य यथा समुच्छेदः? इत्याह- स्तोकस्तोकाकूप्यमाणधान्यस्य धान्यभृतकोष्ठागारस्य । इदमुक्तं भवति- कालस्यानन्त्यात् षण्मासपर्यन्ते चावश्यमेकस्य भव्यस्य जीवस्य सिद्धिगमनात् क्रमेणापचीयमानस्य धान्यकोष्ठागारस्येव सर्वस्यापि भव्यराशेरुच्छेदः प्रामोतीति । अत्रोत्तरमाह- तदेतद् न, अनन्तत्वाद् भव्यराशेः, अनागतकाला-ऽऽकाशवदिति । इह यद् बृहदनन्तकेनानन्तं, तत् स्तोक-स्तोकतयाऽपचीयमानमपि नोच्छिद्यते, यथा प्रतिसमयं वर्तमानतापत्याऽपचीयमानोऽप्यनागतकालसमयराशिः, प्रतिसमयं बुद्ध्या प्रदेशापहारेणापचीयमानः सर्वनभःप्रदेशराशिर्वा । इति न भव्योच्छेदः॥१८२७॥ कुतः इत्याहजं चातीता-ऽणागयकाला तुल्ला जओ य संसिद्धो । एक्को अणंतभागो भव्वाणमईयकालेणं ॥१८२८॥
, अनुदाहरणमभावः खरमिव मतिर्न तद् यस्मात् । भाव एव स विशिष्टः कुम्भानुत्पत्तिमात्रेण ॥ १८२६ ॥ २ एवं भव्योच्छेदः कोष्ठागारस्येवापचय इति । तद् नानन्तत्वतोऽनागतकाला-ऽम्बरयोरिव ॥ १८२७ ॥ ३ पचातीता-नागतकाली तुल्यौ यतश्च संसिद्धः । एकोऽनन्तभागो भव्यानामतीतकालेन ॥ १८२८ ॥
वापर
PROHI
॥७६६॥
Forsonal and Private Use Only