________________
MANTRAPATRE
विशेषा.
॥६५०||
'सामायिक' इति नपुंसकनिर्देशः, यथा वा मनुः, अक्षपाद इत्यादौ निर्देशकवशाद् निर्देशः, तथाऽत्रापि योषित-पुरुष नपुंसकलक्षणत्रिविधनिर्देशकवशात् तदेव सामायिक स्त्री-पु-नपुंसकं भवति- स्यादित्रिविधनिर्देशकवशाद् नन्दसंहिता-मनु-कापिलीयादिवत् त्रिध्वपि लिङ्गेषु सामायिकस्य निर्देशप्रवृत्तिः, यथा 'सामायिक स्त्री' इत्यादि ॥ १५०९॥
अथ प्रकारान्तरेणापि लोकव्यवहारोपदर्शनेन प्रकृतं समर्थयन्नाह
जह वा घडाभिहाणं घडसद्दो देवदत्तसद्दो त्ति । उभयमविरुद्धमेवं सामइयं नेगमनयरस ॥ १५१० ॥ इयं च गाथा, 'यथा वा देवदत्तादिना घटादिशब्दे समुच्चारिते' इत्यादिना व्याख्यातैवेति ॥ १५१० ॥ "निद्दिढ संगहो य ववहारो' इत्येतद् व्याख्यातुमाह
अत्थाउ च्चिय वयणं लहइ सरूवं जओ पईवो व्व । तो संगह-ववहारा भणति निदिट्ठवसगं तं ॥१५११॥
यतो यस्मादर्थादेव वाच्याद् घटादेः सकाशाद् वाचकं वचनं स्वरूपमात्मलाभ लभते, नान्यथा, यथा प्रदीपः, प्रदीपो हि प्रकाश्यमेवार्थ प्रकाशयन् प्रदीपो भण्य ते, यदि तु प्रकाश्यं वस्तु न स्यात् , तदा किमपेक्षोऽसौ पदीप: स्यात् । तस्माद् यथा प्रकाश्यादेवार्थात् प्रदीप आत्मलाभ लभते, तथा वाच्यादेवार्थाद् वचनमात्मस्वरूपमामोति । ततस्तस्मात् संग्रह-व्यवहारनयौ 'निर्दिश्यते' इति | निर्दिष्टं वाच्यं वस्तु तद्वशगं तदधीनमेव तद् वचनं भणतो ब्रूतः । वाच्यं चेह सामायिकशब्दस्य सावधविरतिरूपस्तदभिधेयोऽर्थः । | स च रूढितो नपुंसकतया प्रसिद्ध इति । अतः सामायिकस्य नपुंसकलिङ्गतामेव संग्रह-व्यवहारावभ्युपगच्छतः । अथवा, सामायिक| वतां सत्त्वानां स्त्री-पुंनपुंसकत्वात् तत्परिणामानन्यत्वेन च सामायिकार्थस्य स्व्यादिरूपत्वाद् वाच्यवशेन त्रिलिङ्गतापि सामायिकस्य संग्रह-व्यवहारनयमतेन द्रष्टव्यति ॥ १५११ ॥
प्रकारान्तरेणापि निर्दिष्टवशाद् निर्देशं समर्थयबाह
अहव निद्रुित्थस्स पजओ चेव तं सधम्म व्व । तप्पच्चयकारणओ घडस्स रुवाइधम्म व्व ॥१५१२॥
नखETTE
, यथा वा घटाभिधानं घटशब्दो देवदत्तशब्द इति । उभयमविरुद्धमेव सामायिक नैगमनयस्व ॥ १५१० ॥ २ गाथा १५०५ ॥ ३ अर्थादेव वचनं लभते स्वरूपं यतः प्रदीप इव । ततः संग्रह-व्यवहारी भणतो निर्दिष्टवशगं तत् ॥ १५11॥ ४ अधवा निर्दिष्टार्थस्य पर्यय एव तत् स्वधर्म इव । तत्प्रत्ययकारणतो घटस्य रूपादिधर्म इव ॥ १५१२ ॥
In die
For Personal and Private
Only