________________
विशेषा.
॥६५॥
BIPI
अथवा, तद् वचनं निर्दिष्टार्थस्य वाच्यवस्तुनः पर्याय एव, तत्प्रत्ययकारणत्वात्- वाच्यार्थप्रतीतिहेतुत्वात् , यथा तस्यैव निर्देशस्य घटादेरन्ये संस्थानादयो धर्माः । इह यद् यस्य प्रत्ययकारणं तत् तस्य वपर्यायः, यथा घटस्य रूपादयः, वचनं च वाच्याथस्य प्रत्ययकारणम् , अतस्तत्पर्यायः, पर्यायश्व पर्यायिणोऽधीन एव, इति युक्तो निर्देश्यवशाद् निर्देश इति ॥ १५१२॥
स्यादेतत् , असिद्धोऽयं हेतु:- 'एतत्प्रत्ययकारणत्वाद् वचनस्य' इति, एतन्निराकरणार्थमाहवैयणं विण्णाणफलं जइ तं भणिए वि नत्थि किं तेणं ?। अण्णत्थ पच्चए वा सव्वत्थ वि पच्चओ पत्तो ॥१५१३॥
अभिधेयसंकरो वा बत्तरि पच्चओऽणभिहिए वि । तम्हा निदिवसा नपुंसगं बेंति सामइयं ॥१५१४॥
अर्थविज्ञानफलं हि वचनं, यदि भणितेऽप्युदीरितेऽपि वचने 'तं ति' तदर्थविज्ञानं नास्ति न भवति, तर्हि कण्ठोष्ठशोषमात्रविधायिना किं तेनोक्तेन, निष्फलत्वात् । स्यादेतत् , वाच्यादर्थादन्यत्र वक्तृलक्षणेऽर्थे विज्ञानं जनयिष्यति वचनम् । ततश्च विज्ञानफलं च तद् भविष्यति, वाच्येऽर्थे विज्ञानं च न जनयिष्यति, तथा च सति वाच्यार्थपर्यायो वचनं न भविष्यति, इत्याशङ्कयाह- 'सव्वत्थेत्यादि' यदि हि वाच्यमर्थ विहाय वक्तृलक्षणेऽर्थान्तरे प्रत्ययं वचनं जनयेत् , तीविशेषेणैव सर्वत्रार्थे प्रत्ययः प्राप्तः, न वा कचिदप्यर्थेऽसौ भवेत् , अविशेषादिति- अतत्पर्यायत्वेऽपि तत्पत्ययहेतुत्वे सर्वत्रासौ भवेत् . न वा कचिद् भवेदिति भावः।
स्यादेतत् , वचनाद् वक्तरि प्रत्ययो भवत्येव, यथाऽनेनेदमभिहितमिति, तत् किमुच्यते- 'जइ तं भणिए वि नात्थ किं तेणं' इति ? इत्याशङ्क्याह- 'अभिधेयसंकरो वेत्यादि । अथवा, वाच्यादर्थादन्यत्र प्रत्ययेऽभ्युपगम्यमाने सर्वत्रापि प्रत्ययो न भवेदित्येको दोष उक्तः । अथ दोषान्तरमभिधित्सुराह- 'अभिधेयसंकरो वेत्यादि' यदि हि वक्तर्यनभिहितेऽपि वचनात् तत्र प्रत्ययोऽभ्युपगम्यते, हन्त ! तर्हि वक्तृवदनभिहितानि खरो-ष्ट्र ढेङ्क-बकादीनि बहूनि वस्तूनि सन्ति, ततो वक्तृवत् तेषामपि श्रोतुः प्रत्यये सत्यभिधेयानां सर्वेषां, अभिधेयेन वा घटादिना सह वक्त्रादीनामन्येषां संकरः, एकस्यां श्रोतृपतीती सांकर्य युगपत् तदाकारसंक्रमणं प्रामोति, न चैतदस्ति, एकस्माद् वचनादेकस्यैव प्रतिनियतस्य घटाद्याकारस्य संवेदनादिति । तस्मादभिधेयपर्याय एव वचनम् , तत्प्रत्ययकारणत्वात् । अतो निर्दिष्टमिह सामायिकशब्दस्यार्थरूप सामायिक रूढितो नपुंसकम् , तद्वशात् सामायिकशब्दः संग्रह-व्यवहारयोनपुंसकलिङ्गति । अथवा, सामायिकवतः स्त्री-पुं-नपुंसकत्वात् , तत्परिणामानन्यत्वाच्च सामायिकार्थस्य त्रिलिङ्गतामपि संग्रह-व्यवहारावभ्युपगच्छतः।
वचन विज्ञानफलं यदि तद् भणितेऽपि नास्ति किं तेन । अन्यत्र प्रत्यय वा सर्वत्रापि प्रत्ययः प्राप्तः ॥१५१३॥ अभिधेयसंकरो वा बक्तरि प्रत्ययोऽनभिहितेऽपि । तस्माद् निर्दिष्टवशाद् नपुंसकं मुवन्ति सामायिकम् ॥ ४५१४॥
NOTree
६५१॥
Foto s and Private Use Only
www.janeibrary.org