SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ विशेषा. HRISTOबापर बृहदत्तिः । ७४२॥ नगर-सरित्-समुद्र-घट-पटादीनां प्रत्यक्षेणैव दर्शनात् सौदर्शनलक्षणस्य हेतोः प्रत्यक्षविरोधः। ततः प्रत्यक्षविरोधतश्च 'सर्वादर्शनात्' इत्येतदयुक्तमिति । अत्र कश्चिदाह- ननु सपक्षस्य सर्वस्याव्यापकोऽपि विपक्षात् सर्वथा निवृत्तो हेतुरिष्यत एव, यथा 'अनित्यः शब्दः, प्रयत्नानन्तरीयकत्वात्' इति न ह्यनित्योऽर्थः सर्वोऽपि प्रयत्नानन्तरीयकः, विद्युद्-घन-कुसुमादिभिर्व्यभिचारात् । तद्वदिहापि यद्यपि सर्वेष्वपि भावेषु परभागादर्शनं नास्ति, यथापि बहुषु तावदस्ति, अतस्तेषु शून्यतां साधयन्नसौ सम्यग् हेतुर्भविष्यति । तदयुक्तम् , यतस्तत्र 'यदनित्यं न भवति तत् प्रयत्नानन्तरीयकमपि न भवति, यथाऽऽकाशम्' इत्येवं व्यतिरेकः सिध्यतिः इह तु यत्र शून्यता नास्ति, किं तर्हि ? वस्तुनः सत्त्वम् , परभागादर्शनमपि तत्र नास्ति, किन्तु परभागदर्शनम् , यथा क, इति भवतः सर्वासद्वादिनो व्यतिरेकः कचिदपि न सिध्यति, अतोऽहेतुरेवायमिति ॥ १७४४ ॥ १७४५ ॥ अत्र पराभिप्रायमाशय परिहरबाह-- नत्थि पर-मज्झभागा अपच्चक्खत्तओ मई होजा । नणु अक्ख-त्थावत्ती अपञ्चक्खत्तहाणी वा ॥१७४६॥ अथ स्यान्मतिः-पर-मध्यभागी न स्तः, अप्रत्यक्षत्वात् , खरविषाणवत् । तदसत्त्वे च तदपेक्षया निर्दिश्यमान आराद्भागोऽपि नास्ति, अतः सर्वशून्यतेत्यभिप्रायः। तदयुक्तम् , यतः 'अक्षमक्षमिन्द्रियमिन्द्रियं प्रति वर्तत इति प्रत्यक्षोऽर्थः, न प्रत्यक्षोप्रत्यक्षः, तद्भावोऽप्रत्यक्षत्वम् , तस्मादप्रत्यक्षत्वात्' इत्युच्यमाने नन्वक्षाणामर्थस्य चाऽऽपत्तिः सत्ता प्रामोति, तदापत्तौ च शून्यताभ्युपगमहानिः। शून्यतार्या वाऽप्रत्यक्षत्वलक्षणस्य हेतोहोनिः, अक्षा-ऽर्थानामभावे प्रत्यक्षा-ऽप्रत्यक्षव्यपदेशानुपपत्तेरिति भावः ॥१७४६॥ ___ अपि च, 'अप्रत्यक्षत्वात्' इत्यनैकान्तिको हेतुरिति दर्शयन्नाहअस्थि अपच्चक्खं पि हु जह भवओ संसयाइविन्नाणं । अह नत्थि सुण्णया का कास व केणोवलद्धा वा?॥१७४७॥ __नन्वप्रत्यक्षमप्यस्ति किश्चिद् वस्तु, यथा भवतः संशयादिविज्ञानमन्येषामप्रत्यक्षमप्यस्ति, ततो यथैतत् , तथा पर-मध्यभागावप्रत्यक्षौ भविष्यत इत्यनैकान्तिको हेतुः। अथ भवत्संशयादिविज्ञानमपि नास्ति, तर्हि का नाम शून्यता ?, कस्य वाऽसौ ?, न स्तः पर-मध्यभागावप्रत्यक्षवतो मतिभवेत् । नन्वक्षा-र्थापत्तिरप्रत्यक्षस्वहानिर्वा ॥ १७४६ ॥ २ अस्त्यप्रत्यक्षमपि खलु यथा भवतः संशयादिविज्ञानम् । अथ नास्ति शून्यता का फस्य वा केनोपलब्धा बा ? ॥१७४७॥ ||७४२॥ an Education Internat Forsonal and Private Use Only www.janelbrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy