________________
बृहदत्तिः ।
केन वोपलब्धा ? । भवत एवेह तत्र किल संशयः, स चेद् नास्ति, तर्हि कस्यान्यस्य ग्राम-नगरादिसवे विप्रतिपत्तिः ? इति भावः॥१७४७॥ विशेषा
तदेवं युक्तिभिः शून्यतामपाकृत्य भगवान् व्यक्त शिक्षयन्नाह||७४३॥
पैच्चक्खेसु न जुत्तो तुह भूमि-जला-ऽनलेसु संदेहो । अनिला-ऽऽगासेसु भवे सोऽवि न जुत्तोऽणुमाणाओ॥१७४८॥
तस्माद् भूमि-जल-वद्विषु प्रत्यक्षेषु तव सौम्य ! संशयो न युक्तः, यथा स्वस्वरूपे । तथा, अनिलोऽपि प्रत्यक्ष एव, गुणप्रत्यक्षत्वात् , घटवत् , ततस्तत्रापि न संशयो युक्तः। भवतु वा, अनिला-55काशयोरप्रत्यक्षत्वेन संशयः, तथाऽप्यसौ न युक्तः, अनुमानसिद्धत्वात् तयोरिति ॥ १७४८ ॥
तत्रानिलविषयं तावदनुमानमाह-- __ अत्थि अदिस्सापाइयफरिसणाईणं गुणी गुणत्तणओ । रुवस्स घडो व्व गुणी जो तसिं सोऽनिलो नाम ॥१७४९॥5
य एतेऽदृश्येन केनाप्यापादिता जनिताः स्पर्शादयस्ते विद्यमानगुणिनः, गुणत्वात् , आदिशब्दाच्छब्द-स्वास्थ्य-कम्पा गृह्यन्ते, एतेऽपि हि वायुप्रभवाद् वायुगुणा एव, इह ये गुणास्ते विद्यमानगुणिनो दृष्टाः, यथा घट-रूपादयः, यश्चैषां स्पर्श-शब्द-स्वास्थ्यकम्पानां गुणी स वायुः, तस्मादस्त्यसाविति ।। १७४९ ।। __ आकाशसाधकमनुमानमाह
अत्थि वसुहाइभाणं तोयस्स घडो व्व मुत्तिमत्ताओ। जं भूयाणं भाणं तं वोमं वत्त ! सुव्वत्तं ॥ १७५० ॥
अस्ति वसुधा-जला-ऽनल-वायूनां भाजनमाधारः, मूर्तिमत्त्वात् , तोयस्य घटवत् . यच्च तेषां भाजनं, तदायुष्मन् व्यक्त ! सुव्यक्तं व्योमेति । यदि च साध्यैकदेशतां दृष्टान्तस्य कश्चित् प्रेरयति, तदेत्थं प्रयोगः- विद्यमानभाजना पृथिवी, मूर्तत्वात् , तोयवत् । ES तथा, आपः, तेजोवत् ; तेजश्च, वायुवत् ; वायुश्च, पृथिवीवदिति ॥ १७५० ॥ तदेवं पञ्चापि भूतानि प्रसाध्योपसंहरबाह
प्रत्यक्षेषु न युक्तस्तव भूमि-जला-ऽनलेषु संदेहः । अनिला-ऽऽकाशयोर्भवेत् सोऽपि न युक्तोऽनुमानात् ॥ १७४८ ॥ २ अस्त्याश्यापादितस्पर्शनादीनां गुणी गुणत्वतः । रूपस्य घट इव गुणी यस्तेषां सोऽनिलो नाम ॥ १७४९ ॥ ३ अस्ति वसुधाविभाजनं तोषस्य घट इव मूर्तिमत्त्वात् । यद् भूतानां भाजनं तद् व्योम व्यक्त ! सुव्यक्तम् ।। १७५०॥
||७४३॥
Jan Education interna
For Personal and Private Use Only
BHwww.jaineltrary.org