________________
वृहद्वतिः ।
एवं पच्चक्खाइपमाणसिद्धाई सोम्म ! पडिवज्ज । जीव-सरीराहारोवओगधम्माइं भूयाइं ॥ १७५१ ॥ विशेषा. तदेवं सौम्य ! प्रत्यक्षादिप्रमाणसिद्धानि प्रतिपद्यस्व पञ्च भूतानि, जीव-शरीरा-ऽऽधाराद्युपयोगधर्मकानि चैतानीति ॥१७५१।। ॥७४४॥
अशस्त्रोपहतानि च पृथिव्य-ऽप्-तेजो-वायुलक्षणानि चत्वारि भूतानि सचेतनानि, अतः पराभिप्रायमाशङ्कय तेषां सचेतनत्वं सिसाधयिषुराह
किह सजीवाइं मई तल्लिङ्गाओऽनिलावसाणाई। वोमं विमुत्तिभावादाधारो चेव न सजीवं ॥ १७५२ ॥
कथं पुनः सह जीवेन वर्तन्त इति सजीवानि भूतानि ? इति परस्य मतिः स्यात् । अत्रोच्यते- तस्य जीवस्य लिङ्गं तल्लिङ्ग तस्मात् तदुपलब्धेरित्यर्थः, सचेतनान्यनिलावसानानि चत्वारि भूतानि । व्योम- आकाशं पुनर्विगतमूर्तिभावमाधार एव, न तु R. सजीवमिति ॥ १७५२ ॥
'तल्लिङ्गात्' इत्युक्तम् , तत्र पृथिव्याः सजीवत्वे किं लिङ्गम् ? इत्याह
जम्म-जरा-जीवण-मरण-रोहणा-हार-दोहला-मयओ। रोग-तिगिच्छाईहि य नारि व्व सचेयणा तरवो ॥१७५३॥
'सचेतनास्तरवः' इति प्रतिज्ञा । 'जन्म-जरा-जीवन-मरण-क्षतसंरोहणा-ऽऽहार-दौहृदा-ऽऽमय-तचिकित्सादिसद्भावात्' इति हेतुः । | 'नारीवत्' इति दृष्टान्तः । आह-नन्वनैकान्तिकोऽयम् , अचेतनेष्वपि जन्मादिव्यपदेशदर्शनात् ; तथाहि- 'जातं तद् दधि' इति व्यपदिश्यते, न चैतत् सचेतनम् । तथा, 'जीवितं विषम् ' 'मृतं कुसुम्भकम्' इत्यादि । अत्रोच्यते- वनस्पती सर्वाण्यपि सचेतनलिगानि जन्मादीन्युपलभ्यन्ते, अतो मनुष्येष्विव तानि तेषु निरुपचरितानि, दध्यादौ तु प्रतिनियत एव कश्चिजातादिव्यपदेशो में दृश्यते, स चौपचारिक एव- जातमिव जातं दधि, मृतमिव मृतं कुसुम्भकमित्यादि ॥ १७५३ ॥
वनस्पतेरेव सचेतनत्वसाधने हेत्वन्तराण्यप्याह
||७४४॥
१ एवं प्रत्यक्षादिप्रमाणसिद्धानि सीम्य ! प्रतिपचस्व । जीव-शरीराधारोपयोगधर्माणि भूतानि ।। १७५१ ।। २ कथं सजीवानि भतिस्तल्लिकादनिलावसानानि । व्योम विमूर्तिभावादाधार एव न सजीवम् ॥ १७५२ ॥
जन्म-जरा-जीवन-मरण-रोहणा-हार-दीडदा-5ऽमयतः । रोग-चिकित्सादिभिश्च नीरीव सचेतनास्तरवः ॥ १.५३ ॥
For
Prisen