SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥७४५॥ Jain Educationa Internationa 'छिक्कपरोइया छिक्कमेत्तसंकोयओ कुलिंगो व्व । आसयसंचाराओ वियत्त ! वल्लीवियाणाई ॥१७५४॥ सम्मादओ य साव-प्पबोह-संकोयणाइओऽभिमया । बउलादओ य सद्दाइविसयकालोवलंभाओ ॥ १७५५ ॥ सचेतनाः स्पृष्टप्ररीदिकादयो वनस्पतयः स्पृष्टमात्रसंकोचात् कुलिङ्गः कीटादिस्तद्वत् । तथा, सचेतना वल्ल्यादयः, स्वरक्षार्थ वृत्ति-वृक्ष-वरण्डकाद्याश्रयं प्रति संचरणात् । तथा, शम्यादयश्चेतनत्वेनाभिमताः, स्वाप-प्रबोध- संकोचादिमत्त्वात्, देवदत्तवत् । तथा, सचेतना बकुला शोक- कुरुवक-विरहक-चम्पक-तिलकादयः शब्दादिविषयकालोपलम्भात् - शब्द-रूप-गन्ध-रस-स्पर्शविषयाणां काले प्रस्ताव उपभोगस्य यथासंख्यमुपलम्भादित्यर्थः, यज्ञदत्तवदिति । एवं पूर्वमपि दौहृदादिलिङ्गेषु कूष्माण्डी- बीजपूरकादयो वनस्पतिविशेषाः पक्षीकर्तव्या इति ।। १७५४ ।। १७५५ ।। अथ सामान्येन तरूणां, पृथ्वीविशेषाणां च विद्रुमादीनां सचेतनत्वसाधनायाह- * मंसंकुरो व्व सामाणजाइरूवंकुरोवलंभाओ । तरुगण-विद्दुम लवणो वलादओ सासयावत्था || १७५६ ॥ तरुगणः, तथा विद्रुम-लवणो- पलादयश्च स्वाश्रयावस्था स्वजन्मस्थानगताः सन्तश्चेतनाः, छिन्नानामप्यमीषां पुनस्तत्स्थान एव समानजातीयाङ्करोत्थानात्, अशमांसाङ्कुरवत् । आह- ननु पृथिव्यादिभूतानामिह सचेतनत्वं साधयितुमारब्धम्, ततः पृथिव्या एवादौ तत् साधयितुं युक्तम्, तस्या एवादावुपन्यासात्, तत्किमिति 'जम्म-जरा- जीवण-' इत्यादिना तरूणामेवादौ तत् साधितम् पश्चात् विद्रुम- लवणोपलादीनामिति । सत्यम्, किन्तु पृथ्वीविकारतया पृथ्वीभूत एव तरूणामन्तर्भावो लोकप्रसिद्धः, सुव्यक्तचैतन्यलिङ्गाश्व यथा तरवो न तथा लवणो-पल-जलादय इति तेषामेवादौ चैतन्यं साधितमिति ।। १७५६ ।। अधोदकस्य सचेतनत्वं साधयितुमाह- भूमिक्खयसाभावियसंभवओ ददुरो व्व जलमुत्तं । अहवा मच्छो व सभाववोमसंभूयपायाओ ॥ १७५७ ॥ ९४ १ स्पृष्टप्ररोदिकाः स्पृष्टमात्र संकोचतः कुलिङ्ग इव । आश्रयसंचाराद् व्यक्त ! वल्लवितानानि ।। १७५४ ॥ शम्यादयश्च स्वाप-प्रबोध-संकोचनादितोऽभिमताः । बकुलादयश्च शब्दादिविषयकालोपलम्भात् ॥ १७५५ ।। २ ज. 'रोहिका' । ४ गाथा १७५३ । ३ मांसाकर इव समानजातिरूपाङ्कुरोपलम्भात् । तरुगण-विद्रुम-लवणो-पलादयः स्वाश्रयावस्थाः ॥ १७५६ ॥ ५ भूमिक्षतस्वाभाविकसंभवतो दर्दुर इव जलमुक्तम् । अथवा मत्स्य इव स्वभावव्योमसंभूतपातात् ।। १७५७ ॥ For Personal and Private Use Only बृहद्वृत्तिः। 1108411 www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy