________________
विशेषा०
॥७०८॥
Jain Educationa Internatio
भूयाणं पत्तेयं पि चेयणा समुदए दरिसणाओ । जह मज्जंगेसु मओ मइ त्ति हेऊ न सिद्धोऽयं ॥ १६५५ ॥ स्यात् परस्य मतिः- साधूक्तं यत्- पृथगपि मद्याङ्गेषु किञ्चिद् मदसामर्थ्यमस्तीति । एतदेव हि मम भूतेषु व्यस्त।वस्थायां चैतन्यास्तित्वसिद्धावुदाहरणं भविष्यति, तथाहि — व्यस्तेष्वपि भूतेषु चैतन्यमस्ति तत्समुदाये तदर्शनात्, मद्याङ्गेषु मदवदिति । यथा मद्याङ्गेषु मदः पृथगल्पत्वाद् नातिस्पष्टः, तत्समुदाये त्वभिव्यक्तिमेति तथा भूतेष्वपि पृथगवस्थायामणीयसी चेतना, तत्समुदाये तु भूयमिति । अत्रोत्तरमाह - 'हेऊ न सिद्धोऽयमिति' 'चेतनाया भूतसमुदाये दर्शनात् इत्यसिद्धोऽयं हेतुरित्यर्थः, आत्मनो भूतसमुदायान्तर्गतत्वेन चेतनायास्तद्धर्मत्वात्, आत्माभावे च तत्समुदायेऽपि तदसिद्धेरसिद्धोऽयं हेतुरिति भावः । यदि हि भूतसमुदायमाना भवेत् तदा मृतशरीरेऽप्युपलभ्येत । वायोस्तदानीं तत्राभावात् तदनुपलम्भ इति चेत् । नैवम्, नलिकादिप्रयोगतस्तप्रक्षेपेऽपि तदनुपलब्धेः । तेजस्तदानीं तत्र नास्तीति चेत् । न तत्प्रक्षेपेऽपि तदनुपलम्भात् । विशिष्टतेजो वाय्वभावादनुपलम्भ इति चेत् । किं नामात्मसत्वं विहायाऽन्यत् तद्वैशिष्टयम् १, ननु संज्ञान्तरेणात्मसत्वमेव त्वयापि प्रतिपादितं स्यादिति ।। १६५५ ॥
अथ परस्योत्तरमाशङ्कय प्रतिविधातुमाह-
ने पच्चक्खविरोहो गोयम ! तं नाणुमाणभावाओ । तुह पच्चक्खविरोहो पत्तेयं भूयचेय त्तिं ॥ १६५६ ॥
ननु प्रत्यक्षविरुद्धमेवेदं यत्- भूतसमुदाये सत्युपलभ्यमानापि चेतना न तत्समुदायस्येत्यभिधीयते । न हि घटे रूपादय उपलभ्यमाना न घटस्येति वक्तुमुचितम् । तदयुक्तम्, यतो न भू-जलसमुदायमात्रे उपलभ्यमाना अपि हरितादयस्तन्मात्रप्रभवा इति शक्यते वक्तुम् । तीजमाधकानुमानेन बाध्यतेऽसावुपलम्भ इति चेत् । तदेतदिहापि समानम् । एतदेवाह - 'गोयमेत्यादि' वायुभूतेरपीन्द्रभूतिसोदर्यभ्रातृत्वेन समानगोत्रत्वाद् 'गौतम !' इत्येवमामन्त्रणम्, यत्त्वं ब्रूषे तदेतद् न, भूतसमुदायातिरिक्तात्मसाधकानुमान सद्भावात्, तत|स्तेनैव त्वत्प्रत्यक्षस्य बाधितत्वादिति भावः । प्रत्युत तवैव प्रत्यक्षविरोधः । किं कुर्वतः ? इत्याह- 'पत्तेयं भूयचेय त्ति' 'ब्रुवत:' इति शेषः । प्रत्येकावस्थायां पृथिव्यादिभूतेषु चैतन्याभावस्यैव दर्शनात् तदस्तित्वं प्रत्यक्षेणैव वाध्यत इति 'प्रत्येकं भूतेषु चेतना' इति तस्तत्र प्रत्यक्षविरोध इत्यर्थः ।। १६५६ ।।
१ भूतानां प्रत्येकमपि चेतना समुदये दर्शनात् । यथा मचाङ्गेषु मदो मतिरिति हेतुर्न सिद्धोऽयम् ॥ १६५५ ॥ २ ननु प्रत्यक्षविरोधो गौतम ! तद् नानुमानभावात् । तव प्रत्यक्षविरोधः प्रत्येकं भूतचेतनेति ॥ १६५६ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥७०८ ||
www.jainelibrary.org