SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सदर क बृहदा विशेषा० १७०७|| तैलम् । यत्तु तेषां समुदाये भवति न तस्य पृथग् व्यवस्थितेषु तेषु सर्वथाऽनुपलम्भः, यथैकैकतिलावस्थायां तैलस्य, सर्वथा नोपलभ्यते च भूतेषु प्रत्येकावस्थायां चेतना, तस्माद् नासौ तत्समुदायमात्रप्रभवा, किन्त्वपत्तेरेवान्यत् किमपि जीवलक्षणं कारणान्तरं भूतसमुदायातिरिक्तं तत्र संघट्टितं, यत इयं प्रभवतीति प्रतिपत्तव्यम् । आइ- 'प्रत्येकावस्थायां सर्वथाऽनुपलम्भात्' इत्यनैकान्तिकोऽयं हेतुः, प्रत्येकावस्थायां सर्वथाऽनुपलब्धस्यापि मदस्य मद्याङ्गसमुदाय दर्शनात् , इत्याशङ्क्याह- 'मजंगेसु इत्यादि धातकीकुसुमादिषु मद्याङ्गेषु पुनर्विष्वक् पृथग न सर्वथा मदो नास्ति, अपितु या च यावती च मदमात्रा पृथगपि तेष्वस्त्यवेत्यर्थः। ततो नानैकान्तिकता हेतोरिति ।। १६५२ ॥ भूतेष्वप्येवं भविष्यतीति चेत् । नैतदेवम् । कुतः ? इत्याहभैमि-धणि-वितण्हयाई पत्तेयं पि हु जहा मयंगेसु । तह जइ भूएसु भवे चेया तो समुदये होज्जा ॥१६५३॥ यथा प्रत्येकावस्थायां धातकीकुसुमेषु या च यावती च भ्रमिश्चितभ्रमापादनशक्तिरस्ति, गुड-द्राक्षे-क्षुरसादिषु पुनर्धाणिरतप्तिजननशक्तिरस्ति, उदके तु वितृष्णताकरणशक्तिरस्ति, आदिशब्दादन्येष्वपि मद्याङ्गष्वन्यापि यथासंभवं शक्तिर्वाच्या; तथा तेनैव प्रकारेण व्यस्तेष्वपि पृथिव्यादिभूतेषु यदि काचिचैतन्यशक्तिरभविष्यत् , तदा तत्समुदाये संपूर्णा स्पष्टा चेतना स्यात् , न चैतदस्ति, तस्माद् न भूतसमुदायमात्रप्रभवेयमिति ।। १६५३ ॥ ननु यदि प्रत्येकावस्थायां मद्याङ्गेषु सर्वथैव मदशक्तिर्न स्यात् तदा किं दूषणं स्यात् ? इत्याहजइ वा सव्वाभावो वीसु तो किं तदंगनियमोऽयं । तस्समुदयनियमो वा अन्नेसु वि तो हवेज्जाहि ॥१६५४॥ ___ यदि च मद्याङ्गेषु पृथगवस्थायां सर्वथैव मदशक्त्यभावः, तर्हि कोऽयं तदङ्गनियमः- कोऽयं धातकीकुसुमादीनां मद्याङ्गतानियमः, तत्समुदायनियमो वा- किमिति मद्यार्थी धातकीकुसुमादीन्येवान्वेषयति, तत्समुदायं किमिति नियमेन मीलयति ? इत्यर्थः, नन्वन्येष्वपि च भस्मा-ऽश्म-गोमयादिषु समुदितेषु मद्यं भवेदिति ।। १६५४ ॥ अथ मद्याङ्गेषु प्रत्येकावस्थायामपि मदशक्तिसद्भावं साधितमाकर्ण्य कदाचित् पर एवं ब्रूयात् । किम् ? इत्याह१५. ज. 'घटित' । २ भ्रमि-ध्राणि-वितृष्णतादयः प्रत्येकमपि खलु यथा मदाङ्गेषु । तथा यदि भूतेषु भवेचेतना ततः समुदये भवेत् ।। १६५३ ।। यदि वा सर्वाभावो विष्वक् ततः किं तदङ्गनियमोऽयम् । तत्समुदयनियमो बाऽन्येष्वपि ततो भवेत् ॥ १६५४ ।। ७०७॥ Jan Education Intemat For Personal and Private Use Only www.janeltrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy