________________
विशेषा
जह मजंगेसु मओ वीसुमदिट्ठो वि समुदए होउं । कालंतरे विणस्सइ तह भूयगणम्मि चेयण्णम् ॥१६५१॥
वसुधा पृथ्वी, आदिशब्दादप-तेजो वायुपरिग्रहः, वसुधादय एव भवन्तीति कृत्वा भूतानि वसुधादिभूतानि, तेषां समुदयः परस्परमीलनपरिणतिर्वसुधादिभूतसमुदयः, तस्मात् प्रागसती संभूता संजाता, चेतनेत्येवंभूता तव शङ्का । सा च चेतना पृथिव्यादिभूतेषु प्रत्येकावस्थायामदृष्टापि धातकीकुसुम-गुडो-दकादिषु मद्याङ्गेषु मद इव तत्समुदाये संभूतेति प्रत्यक्षत एव दृश्यते । तदेवमन्वयद्वारेण चेतनाया भूतसमुदायधर्मता दर्शिता । अथ व्यतिरेकद्वारेण तस्यास्तां दर्शयितुमाह- 'जह मजगेसु इत्यादि' यथा च मद्याङ्गेषु मदभावः प्रत्येकावस्थायामदृष्टोऽपि तत्समुदाये भूत्वा ततः कियन्तमपि कालं स्थित्वा कालान्तरे तथाविधसामग्रीवशात् कुतश्चिद् विनश्यति, तथा भूतगणेऽपि प्रत्येकपसचैतन्यं भूत्वा ततः कालान्तरे विनश्यति । ततोऽन्वय-व्यतिरेकाभ्यां निश्चीयते- भूतधर्म एव चैतन्यम् ।
इदमत्र हृदयम्- यत् समुदायिषु प्रत्येकं नोपलभ्यते तत्समुदाये चोपलभ्यते, तत् तत्समुदायमात्रधर्म एव, यथा मद्याङ्गसमुदायधर्मो मदः । स हि मद्यानेषु विष्वग् नोपलभ्यते, तत्समुदाये चोपलभ्यते, अतस्तद्धर्मः । एवं चेतनापि भूतसमुदाय भवति, पृथग न भवति, अतस्तद्धर्मः। धर्म-धर्मिणोश्चाभेद एव, भेदे घट-पटयोरिव धर्मि-धर्मभावाप्रसङ्गात् । तस्मात् स एव जीवस्तदेव च शरीरम् । वाक्यान्तरेषु पुनः शरीराद् भिन्नः श्रूयते जीवः, तद्यथा- 'न हि चै सशरीरस्य प्रिया-ऽप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियापिये न स्पृशतः" इत्यादि । ततस्तव संशय इति ॥ १६५० ॥ १६५१ ॥
अत्रोत्तरमाह
पेत्तेयमभावाओ न रेणुतेल्लं व समुदये चेया । मज्जंगेसुं तु मओ वीसुं पि न सव्वसो नत्थि ॥ १६५२ ॥
'न समुदये चेय त्ति' न भूतसमुदयमात्रप्रभवा चेतना, 'पत्तेयमभावाउ त्ति' भूतप्रत्येकावस्थायां तस्या अंशतोऽपि सर्वथाऽनुः पलब्धेरित्यर्थः । किं यथा किंमभवं न भवति ? इत्याह- 'न रेणुनेल्लं व त्ति' यथा प्रत्येकं सर्वथाऽनुपलम्भाद् रेणुकणसमुदायमभवं तैलं न भवतीत्यर्थः । प्रयोगः- यद् येषु पृथगवस्थायां सर्वथा नोपलभ्यते तत् तेषां समुदायेऽपि न भवति, यथा सिकताकणसमुदाये
७०६॥
, यथा मद्याङ्गेषु मदो विष्वगदृष्टोऽपि समुदये भूत्वा । कालान्तरे विनश्यति तथा भूतगणेऽपि चैतन्यम् ॥ १६५१ ॥ २ प्रत्येकमभावादून रेणुतैलमिव समुदये चेतना । मद्यानेषु तु मदो विष्वगपि न सर्वशो नास्ति ।। १६५२ ॥
in Education Internatio
For Personal and Private Use Only