SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥७०९ ॥ Jain Educationa Internatio किं पुनस्तदात्मसाधकमनुमानम् १ इत्याह भूइंदियोवलद्धाणुसरणओ तेहिं भिन्नरूवरस | चेया पंचगवक्खोवलडपुरिसस्स वा सरओ || १६५७॥ तेभ्यो भूतेन्द्रियेभ्यो भिन्नरूपस्य कस्यापि धर्मश्चेतनेति प्रतिज्ञा । भूतेन्द्रियोपलब्धार्थानुस्मरणादिति हेतुः । यथा पञ्चभिर्गवाक्षैरुपलब्धानर्थाननुस्मरतस्तदतिरिक्तस्य कस्यापि देवदत्तादेः पुरुषस्य चेतनेति दृष्टान्तः । अयमत्र तात्पर्यार्थः - इह य एको गैरकैरुपलब्धानर्थाननुस्मरति स तेभ्यो भेदवान् दृष्टः, यथा पञ्चभिर्गवाक्षैरुपलब्धानर्थाननुस्मरन् देवदत्तः, यश्च यस्माद् भूतेन्द्रियामकसमुदायाद् भिन्नो न भवति, किं तर्हि ? अनन्यः, नायमेकोऽनेकोपलब्धानामर्थानामनुस्मर्ता, यथा शब्दादिग्राहकमनोविज्ञानविशेषः, तैरुपलभ्यानुस्मरतोऽपि च तदनतिरिक्तत्वे देवदत्तस्यापि गवाक्षमात्रप्रसङ्गो बाधकं प्रमाणम् । इन्द्रियाण्येवोपलभन्ते, न पुनस्तैरन्य उपलभत इति चेत् । न, 'तदुपरमेऽपि तदुपलब्धार्थानुस्मरणात्, तद्व्यापारे च कदाचिदनुपलम्भात्' इत्यनन्तरमेव वक्ष्यमाणत्वादिति || १६५७ ॥ अनुमानान्तरमप्यात्मसिद्धये माह तेंदुवरमे विसरणओ तव्वावारे वि नोवलंभाओ । इंदिय भिन्नस्स मई पंचगत्रक्खाणुभविणो व्व ॥ १६५८ ॥ इन्द्रियेभ्यो भिन्नस्यैव कस्यापीयं घटादिज्ञानलक्षणा मतिरिति प्रतिज्ञा । तदुपरमेऽपि - अन्धत्व- वाधिर्याद्यवस्थायामिन्द्रियव्यापाराभावेऽपि तद्वारेणोपलब्धानामर्थानामनुस्मरणादिति हेतुः । अथवा, अस्यामेव प्रतिज्ञायां तयापारेऽपि - इन्द्रियव्यापृतावपि कदाचिदनुपयुक्तावस्थायाम्, वस्त्वनुलम्भादित्यपरो हेतुः । यदि हीन्द्रियाण्येव द्रष्टुणि भवेयुः तर्हि किमिति विस्फारिता स्थापि गुणश्रोत्रादीन्द्रियवर्गस्यापि योग्यदेशस्थितानामपि रूप - शब्दादि वस्तूनामनुपयुक्तस्य अन्यमनस्कस्य शून्यचित्तस्योपलम्भो न भवति । ततो ज्ञायते - इन्द्रियग्रामव्यतिरिक्तस्यैव कस्यचिदयमुपलम्भः, यथा पञ्चभिर्गवाक्षैर्योषिदादि वस्तून्यनुभवितुर्दर्श कस्येति दृष्टान्तः । अत्रापि प्रयोगाभ्यां तात्पर्यमुपदर्श्यते, तद्यथा- इह यो यदुपरमेऽपि यैरुपलब्धानामर्थानामनुस्मर्ता स तेभ्यो व्यतिरिक्तो दृष्टः, १ भूतेन्द्रियोपलब्धानुस्मरणतस्तेभ्यो भिन्नरूपस्य । चेतना पञ्चगवाक्षोपलब्धपुरुषस्येव स्मरतः ॥ १६५७ ॥ २ तदुपरमेऽपि स्मरणतस्तव्यापारेऽपि नोपलम्भात् । इन्द्रियभिशस्य मतिः पञ्चगवाक्षानुभविन इव ॥ १६५८ ॥ ३क. स. ग. 'यदुप' For Personal and Private Use Only बृहद्वृत्तिः । ॥७०९ ॥ www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy