SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ समा विशेषा० ७१०॥ यथा गवाक्षरुपलब्धानामर्थानां गवाक्षोपरमेऽपि देवदत्तः, अनुस्मरति चायमात्माऽन्ध-बधिरत्वादिकाले पीन्द्रियोपलब्धानर्थान् , अतः स| तेभ्योऽर्थान्तरमिति । तथा, इन्द्रियेभ्यो व्यतिरिक्त आत्मा, तयापारेऽप्यनुपलम्भात् , इह यो ययापारेऽपि यैरुपलभ्यानर्थान् नोपलभते स तेभ्यो भिन्नो दृष्टः, यथाऽस्थगितगवाक्षोऽप्यन्यमनस्कतयाऽनुपयुक्तोऽपश्यंस्तभ्यो देवदत्त इति ॥ १६५८ ॥ अपरमपि भूतेन्द्रियव्यतिरिक्तात्मसाधकमनुमानमाह-- उवलब्भन्नण विगारगहणओ तदहिओ धुवं अत्थि । पुवावरवातायणगहणविगाराइपुरिसो व्व ॥१६५९॥ इह ध्रुवं निश्चितं तदधिकस्तेभ्य इन्द्रियेभ्यः समधिको भिन्नः समस्ति जीवः, अन्येनोपलभ्यान्येन विकारग्रहणात् , इह योऽन्येनोपलभ्यान्येन विकारं प्रतिपद्यते स तस्माद् भिन्नो दृष्टः, यथा प्रवरप्रासादोपरीतस्ततः पदपरिपाटी कुर्वाणः पूर्ववातायनेन रमणीमवलोक्यापरवातायनेन समागतायास्तस्याः करादिना कुचस्पर्शादिविकारमुपदर्शयन् देवदत्तः, तथा चायमात्मा चक्षुषाऽम्लीकामनन्तं दृष्ट्वा रसनेन हल्लास-लालास्त्रावादिविकारं प्रतिपद्यते, तस्मात् तयोभिन्न इति । अथवा, ग्रहणशब्दमिहाऽऽदानपर्यायं कृत्वाऽन्यथानुमान विधीयते- इन्द्रियेभ्यो व्यतिरिक्त आत्मा, अन्येनोपलभ्यान्येन ग्रहणात् , इह य आदेयं घटादिकमर्थमन्यनोपलभ्यान्यन गृह्णाति स ताभ्यां भेदवान् दृष्टः, यथा पूर्ववातायनेन घटादिकमुपलभ्यापरवातायनेन गृह्णानस्ताभ्यां देवदत्तः, गृह्णाति च चक्षुषोप| लब्धं घटादिकमर्थ हस्तादिना जीवः, ततस्ताभ्यां भिन्न इति ।। १६५९ ।। अथान्यदनुमानम् सेव्वेदिउवलडाणुसरणओ तदहिओऽणुमंतव्यो । जह पंचभिन्नविन्नाणपुरिसविन्नाणसंपन्नो ॥ १६६० ॥ सर्वेन्द्रियोपलब्धार्थानुस्मरणतः कारणात् तदधिकोऽस्ति जीवः । दृष्टान्तमाह- यथा पञ्च च ते भिन्नविज्ञानाश्च पञ्चभिन्नविज्ञाना इच्छावशात् प्रत्येक स्पर्श-रस-गन्ध-रूप-शब्दोपयोगवन्त इत्यर्थः, पञ्चभिन्नविज्ञानाश्च ते पुरुषाश्च पञ्चभिन्नविज्ञानपुरुषास्तेषां यानि स्पर्शादिविषयाणि विज्ञानानि तैः संपन्नस्तद्वेत्ता यः षष्ठः पुरुषस्तेभ्यः पञ्चभ्यो भिन्नः। इदमत्र तात्पर्यम् - य इह यैरुपलब्धानामनामेकोऽनुस्मर्ता स तेभ्यो भिन्नो दृष्टः, यथेच्छानुविधायिशब्दादिभिन्नजातीयविज्ञानपुरुषपञ्चकात् तदशेषविज्ञानाभिज्ञः पुमान् , इच्छानुविधायिशब्दादिभिन्न १ उपलभ्यान्येन विकारग्रहणतस्तदधिको ध्रुवमस्ति । पूर्वापरवातायनग्रहणविकारादिपुरुष इव ॥ १६५९ ॥ २ सर्वेन्द्रियोपलब्धानुस्मरणतस्तदधिकोऽनुमन्तव्यः। यथा पञ्चभित्रविज्ञानपुरुषविज्ञानसंपन्नः ॥ १६५० ॥ ||७१०॥ Jan Education Internation Forson and Private Use Only
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy