________________
विशेषा०
॥७११ ॥
Jain Education Internationa
जातीय विज्ञानेन्द्रियपञ्चकाशेषविज्ञानवेत्ता चायमेक आत्मा, तस्मादिन्द्रियपञ्चकाद् भिन्न एवेति । शब्दादिभिन्नविज्ञान पुरुषपञ्चकस्यैव पृथगिन्द्रियाणामुपलब्धिसङ्गतोऽनिष्टापादनाद् विरुद्धोऽयं हेतुरिति चेत् । न इच्छानुविधायिविशेषणात् इच्छायाश्चेन्द्रियाणामसंभ वात्, सहकारिकारणतयोपलब्धिकारणमात्रताया इन्द्रियेष्वपि सद्भावात्, उपचारतस्तेषामप्युपलब्धेरविरोधाददोषः । किञ्च, प्रतिपश्युपामात्रमेवैतत् न ह्यतीन्द्रियेष्वर्थेष्वेकान्तेनैव युक्त्यन्वेषणपरैर्भाव्यम्; उक्तं च
“आगमश्चोपपत्तिश्च संपूर्ण दृष्टिकारणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ १ ॥ " इति ।। १६६० ।।
अथापरमपि भूतव्यतिरिक्तात्मसाधकमनुमानमाह-
'विष्णाणंतरपुव्वं बालण्णाणमिह नाणभावाओ । जह बालनाणपुत्रं जुवनाणं तं च देहहिअं ॥१६६१ ॥
अन्यविज्ञानपूर्वकमिदं बालविज्ञानम् विज्ञानत्वात् इह यद् विज्ञानं तदन्यविज्ञानपूर्वकं दृष्टम्, यथा बालविज्ञानपूर्वकं युत्रविज्ञानम्, यद्विज्ञानपूर्वकं चेदं बालविज्ञानं तच्छरीरादन्यदेव, पूर्वशरीरत्यागेऽपीहत्यविज्ञानकारणत्वात् तस्य च विज्ञानस्य गुणत्वेन गुणिनमात्मानमन्तरेणासंभवात् तच्छरीरव्यतिरिक्तमात्मानं व्यवस्यामः, न तु शरीरमेवात्मेति । विज्ञानत्वादिति प्रतिज्ञार्थैकदेशत्वादसिद्धो हेतुरिति चेत् । न, विशेषस्य पक्षीकृतत्वात् । भवति च विशेषे पक्षीकृते सामान्यं हेतुः यथाऽनित्यो वर्णात्मकः शब्दः, शब्दस्वात्, मेघशब्दवत् । एवमिहापि बालविज्ञानमन्यविज्ञानपूर्वकमिति विशेषः पक्षीकृतः, न तु सामान्यविज्ञानमन्यविज्ञानपूर्वकमिति पक्षीकृतं येन विज्ञानत्वादिति प्रतिज्ञार्थैकदेशः स्यात्, यथाऽनित्यः शब्दः शब्दत्वादित्यादि ॥ १६६१ ॥
अथान्यदनुमानम् —
माहिलास अण्णाहाराहिलासपुव्वोऽयं । जह संपयाहिलासोऽणुभूइओ सो य देहहिओ || १६६२॥ गौतम ! आद्यः स्तनाभिलाषो बालस्यायमन्याभिलाषपूर्वकः, अनुभूतेः- अनुभवात्मकत्वात्, समिताभिलाषवदिति । अथवा, ‘अभिलाषत्वात्' इत्ययमनुक्तोऽपि हेतुर्द्रष्टव्यः, इह योऽभिलाषः सोऽन्याभिलाषपूर्वको दृष्टः, यथा सांप्रताभिलाषः, यदभिलाषपूर्वक
१ विज्ञानान्तरपूर्व बालज्ञानमिह ज्ञानभावात् । यथा बालज्ञानपूर्व युवज्ञानं तच देहाधिकम् ॥ १६६ ॥
२ प्रथमः स्तनाभिलाषोsन्याहाराभिलाषपूर्वोऽयम् । यथा सांप्रताभिलाषोऽनुभूतितः स च देहाधिकः ॥ १६६२ ॥ ३ . ज. 'योऽयमाद्यः' ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
।।७११ ॥
www.jainelibrary.ing