________________
विशेषा.
बृहद्वृत्तिः ।
७
॥७१२॥
थायमाद्यः स्तनाभिलाषः स शरीरादन्य एव, पूर्वशरीरपरित्यागेऽपीहत्याभिलाषकारणत्वात् । ज्ञानगुणश्चाभिलाषो न गुणिनमन्तरेण संभवति । अतो यस्तस्याश्रयभूतो गुणी स शरीरातिरिक्त आत्मेति ।
आह- नन्वनैकान्तिकोऽयम् , सर्वस्याऽप्यभिलाषपूर्वकत्वानुपपत्तेः। न हि मोक्षाभिलाषो मोक्षाभिलाषपूर्वको घटते । तदयुक्तम् , अभिप्रायापरिज्ञानात् , यो हि स्तनाभिलाषः स सामान्येनैवाभिलाषपूर्वक इत्येतदेवास्माभिरुच्यते, न पुनर्विशेषेण ब्रूमः- 'स्तनाभिलापोऽन्यस्तनाभिलाषपूर्वकः' इति । एवं च सामान्योक्ती मोक्षाभिलाषपक्षेऽपि घटत एव, मोक्षाभिलाषस्यापि सामान्येनाऽन्याभिलाषपूर्वकत्वादिति ॥ १६६२ ॥
अनुमानान्तरमाह--
बोलसरीरं देहतरपुव्वं इन्दियाइमत्ताओ । जुवदेहो बालादिव स जस्स देहो स देहि त्ति ॥ १६६३ ॥
बालशरीरं शरीरान्तरपूर्वकम् , इन्द्रियादिमत्त्वात् , इह यदिन्द्रियादिमत् , तदन्यदेहपूर्वकं दृष्टम् , यथा युवशरीरं बालदेहपूर्वकम् , यत्पूर्वकं चेदं बालशरीरं तदस्मात् शरीरादर्थान्तरम् , तदत्ययेऽपीहत्यशरीरोपादानात् , यस्य च तच्छरीरं स भवान्तरयायी शरीरादर्थान्तरभूतो देहवानस्त्यात्मा, न पुनः शरीरमेवात्मेति सिद्धमिति ॥ १६६३ ॥
अनुमानान्तरमाह
अण्णसुह-दुक्खपुव्वं सुहाइ बालस्स संपइसुहं व । अणुभूइमयत्तणओ अणुभूइमओ य जीवो ति॥१६६४॥
अन्यसुखपूर्वकमिदमार्य बालसुखम् , अनुभवात्मकत्वात् , सांप्रतसुखवत् , यत्सुखपूर्वकं चेदमाद्यं सुखम्, तच्छरीरादन्यदेव, तदत्ययेऽपीहत्यसुखकारणत्वात् । गुणश्चायम् , स च गुणिनमन्तरेण न संभवति, अतो यस्तस्याश्रयभूतो गुणी स देहादर्थान्तरम् , इति सुखानुभूतिमयो जीव इति सिद्धम् । एवं दुःख-राग-द्वेष-भय-शोकादयोऽप्यायोजनीया इति ॥ १६६४ ॥
अथ प्राग् जीवकर्मसिद्धाबुक्तान्यप्यनुमानान्यत्रापि जीवसिद्धिप्रस्तावाद् मन्दस्मृत्यनुग्रहार्थं पुनरप्याहसंताणोऽणाई उ परोप्परं हेउ-हेउभावाओ। देहस्स य कम्मस्स य गोयम ! बीयं-कुराणं व ॥ १६६५ ॥
॥७१२॥
१ बालशरीरं देहान्तरपूर्वमिन्द्रियादिमत्त्वात् । युवदेहो बालादिव स यस्य देहः स देहीति ॥ १६६३ ॥ २ अन्यसुख-दुःखपूर्व सुखादि बालस्य सांप्रतसुखमिव । अनुभूतिमयत्वतोऽनुभूतिमयश्च जीव इति ॥ १६॥ गाथा १६३९ ।
Hiresire
JanEducationaintam