SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Sta गृह्णामि ? । ननु दुरभिप्रायोऽयम् , यतः किं यत् खस्यात्मनः प्रत्यक्षं तदेवैकं नवरं प्रत्यक्षमुच्यते ? इति काका नेयम् । ननु यदपि । विशेषा. कस्यचित् प्रत्ययितपुरुषस्यान्यस्य प्रत्यक्षं तदपि 'प्रत्यक्षम्' इति गृह्यते व्यवहियते लोके; तथाहि- सिंह-सरभ-हंसादिदर्शनं सिद्धं । प्रसिद्ध लोके, न च सिंहादयः सर्वजनप्रत्यक्षाः, देश-काल ग्राम-नगर-सरित्-समुद्रादयश्च न सर्वेऽपि भवतः प्रत्यक्षाः, अथ चान्यस्यापि ॥७८७॥ | प्रत्यक्षास्ते प्रत्यक्षतया व्यवह्रियमाणा दृश्यन्ते । अतो मत्प्रत्यक्षा नारकाः किमिति प्रत्यक्षतया न व्यवहियन्ते ? इति ॥१८९०॥१८९१॥ ___ अथाभिप्रायान्तरमाशङ्कय परिहरन्नाह अहवा जमिंदियाणं पच्चक्खं किं तदेव पच्चक्खं ?। उवयारमेत्तओ तं पच्चक्खमणिंदियं तत्थं ॥१८९२॥ अथवा, किं यदिन्द्रियाणां प्रत्यक्षं तदेव प्रत्यक्षमिष्यते भवता, मदीयं तु प्रत्यक्षं नाभ्युपगम्यते, अतीन्द्रियत्वात् ? । ननु महानयं विपर्यासः, यस्मादुपचारमात्रत एव तदिन्द्रियप्रत्यक्षं प्रत्यक्षतया व्यवहियते- यथाऽनुमाने बाह्यधूमादिलिङ्गद्वारेण बाह्यमग्न्यादि वस्तु ज्ञायते, नैवमत्र, तत उपचारात् प्रत्यक्षमिव प्रत्यक्षमुच्यते । परमार्थतस्तु- इदमपि परोक्षमेव, यतोऽक्षो जीवः, स चानुमानवदत्रापि वस्तु साक्षाद् न पश्यति, किन्त्विन्द्रियद्वारेणैव, ततोऽतीन्द्रियमेव तथ्यं प्रत्यक्षमवगन्तव्यम् , तत्र जीवेन साक्षादेव वस्तुन उपलम्भादिति ॥ १८९२ ॥ अत्राह- नन्विन्द्रियमत्यक्षे यद्यपि जीवः साक्षाद् वस्तु न जानाति, तथापीन्द्रियाणि साक्षात् तज्ज्ञास्यन्ति, ततश्चेन्द्रियाणां ERA प्रत्यक्षमिन्द्रियप्रत्यक्षं भविष्यति, इत्याशङ्कयाह मुत्ताइभावओ नोवलडिमंतिदियाई कुंभो व्व । उवलंभद्दाराणि ताई जीवो तदुवलद्दा ॥ १८९३ ॥ नोपलब्धिमन्तीन्द्रियाणि- न वस्तुज्ञायकानीत्यर्थः, पुद्गलसंघातरूपत्वेन मूर्तत्वात् , आदिशब्दादचेतनत्वात् , कुम्भवत् । नवरमुपलम्भस्य श्रोत्रादिज्ञानस्य द्वाराणि भवन्त्यमूनि, गवाक्षवत् , तत्सापेक्षस्यैव क्षयोपशमस्य प्रबोधात् । जीव एव च तदुपलब्धा वस्तूपलब्धा ॥१८९३ ॥ जीवस्य, इन्द्रियाणां चाभेद एवेति चेत् । नैवम् । कुतः? इत्याह C७.७॥ , अथवा यदिन्द्रियाणां प्रत्यक्षं किं तदेव प्रत्यक्षम् ? । उपचारमात्रतस्तत् प्रत्यक्षमनिन्द्रिय तथ्यम् ॥ १८९२ ॥ २ मूतांदिभावतो नोपलब्धिमन्तीन्द्रियाणि कुम्भ इव । उपलम्भद्वाराणि तानि जीवस्तदुपलब्धा ॥ १८९५ ॥ POS Sarosa For Personal and Private Use Only Jam Education International www.janelbrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy