________________
विशेषा०
॥६१७॥
Jain Education internation
पोण्डदृष्टान्त व्याख्यामाह
वोडं विभिन्नमीसं दरफुल्लं वियसियं विसेसेण । जह कमलं चउरूवं सुत्ताइचउक्कमप्पेवं ॥ १४३१ ॥
पोण्डमविकसितावस्थं कमलम् । तस्य च पश्चात् तिस्रोऽवस्था जायन्ते, तद्यथा- 'विभिन्नमीसं ति' ईषद्विभिन्नमित्यर्थः । तथा, 'दरफुल्लं ति' अर्धविकसितमित्यर्थः । तथा, 'वियसियं विसेसेण त्ति' सर्वात्मना विकसितमित्यर्थः । एवं च सति यथा कमलं चतूरूपमुक्तम्, तथा मूत्रादिचतुष्कमपि विज्ञेयम्- अविवृतं मुकुलितं सूत्रम्, तथा, अल्प- बहु- बहुतरव्याख्यानरूपास्तस्य तिस्रोऽवस्थाः, इत्येवं चतूरूपतेति ।। १४३१ ।।
अथ देशिकदृष्टान्त व्याख्यामाह
* पंथो दिसाविभागो गाम- पुराइगुण-दोसपेयालं । जह, पहदेसणमेवं सुत्तं भासाइतिययं च ॥ १४३२ ॥
इह पन्थाः कश्चिद् ग्राम-नगरादीनां भवति । तं च पृष्टः कोऽपि दिग्विभागपात्रमेव कथयति, अन्यस्तु तद्व्यवस्थितग्रामनगरादीन् कथयति, अपरस्तु मार्गगतनिःशेषगुण-दोषविचारमपि कथयति । इत्थं यथा पथो मार्गस्य देशनं त्रिविधं प्रवर्तते, एवं भाषा विभाषा वार्तिकलक्षणमपि त्रितयमवगन्तव्यम् । तदिह सर्वेष्वपि काष्ठादिदृष्टान्तेष्वयं परमार्थ:- जघन्य मध्यमोत्कृष्टव्याख्यातारो भाषक - विभाषक व्यक्तीकरा उच्यन्त इति । तदेवं जिनप्रवचनोत्पत्तिः, प्रवचनैकार्थिकानि, तद्विभागश्वोक्तः ।। १४३२ ॥
अथ क्रमप्राप्तमपि द्वारविधिं ‘दौरवही वि महत्था तत्थ वि वक्खाणविहिविवज्जासो, मा होज्ज' इत्यादिपूर्वोक्तकारणादुल्लङ्घय, व्याख्यानविधिमेवेह तावदभिधित्सुः प्रस्तावनामाह
ऐयरस को णु जोग्गो वत्तुं सोउं च, केण विहिणा वा ? । पुव्वोइयसंबंधो वक्खाणविही विभागाओ ॥ १४३३ ॥ एतस्य च वक्ष्यमाणस्य 'उद्देसे निद्देसे य' इत्यादिद्वारविधेः, सर्वस्य वाऽनुयोगस्य को वक्तुं योग्यो गुरुः ?, कश्च श्रोतुं योग्यः श्रोता ?, केन वा विधिनाऽसौ वक्तव्यः ? इत्येतदभिधानीयम् । अत एव तस्मात् प्रवचनैकार्थिकविभागादनन्तरं 'दारविही वि महत्था' इत्यादिना
७८
१ क. 'बोण्ड' । २ पोण्डं विभिन्नमीषदर्थं विकसितं विशेषेण । यथा कमलं चतूरूपं सूत्रादिचतुष्कमध्येवम् ॥ १४३१ ॥
३ पन्था दिग्विभागो ग्राम पुरादिगुण-दोषविचारम् । यथा पथदेशनमेवं सूत्रं भाषादित्रितयं च ॥ १४३२ ॥ ४ गाथा १३६० । ५ एतस्य को नु योग्य वक्तुं श्रोतुं च केन विधिना वा ? पूर्वोदितसंबन्धो व्याख्यान विधिविभागात् ॥ १४३३ ।। ६ गाथा ९०३ ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥६१७॥
www.jainelibrary.org