SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ विशेषा• वृहदत्तिः । ॥६१८॥ सानासानासानाRAGARH पूर्वप्रतिपादितसंवन्धो व्याख्यानविधिरुच्यते । पाठान्तरं वा 'विभासाउ ति सामान्येन पूर्वमुद्दिष्टस्येदानी व्याख्यान विधिर्विशेषेण भाषणं भाषा भणनं 'क्रियते' इति शेषः ।। इति गाथाष्टकार्थः॥१४३३ ।। तमेव व्याख्यानविधिमाह गोणी चंदणकथा चेडीओ सावए बहिरगोहे । टंकणओ ववहारो पडिवक्खे आयरिय-सीसे ॥१४३४॥ आचार्य-शिष्ययोर्योग्या-ऽयोग्यविचारे 'गोणी' गौस्तदुदाहरणं वक्तव्यम् । तथा, चन्दनकन्थानिदर्शनम् । तथा, चेट्यौ जीर्णा-ऽभिनवश्रेष्ठिपुत्रिके, तद्दृष्टान्तो वाच्यः । तथा, श्रावकोदाहरणम् । तथा, बधिरगोदोहनिदर्शनम् । तथा, टङ्कणकव्यवहारः षष्ठमुदाहरणम् । एतेषु षट्स्वप्युदाहरणेषु शिष्या-ऽऽचार्ययोः साक्षादयोग्यत्वमभिधाय ततः प्रतिपक्षे योग्यत्वं योजनीयम् । अथवा, एषां षण्णामप्युदाहरणानां मध्ये योग्या-ऽयोग्ययोर्विकल्पेनैकमुदाहरणमाचार्यस्य, एकं तु शिष्यस्य, इत्येवं योजनीयम् ।। इति नियुक्तिगाथासंक्षेपार्थः ॥ १४३४ ॥ विस्तरतस्तु गोदृष्टान्तं भाष्यकारः पाहभैग्गनिविढं गोणिं केउं दंतो व्व न सुयमायरिओ । एवं मए वि गहियं गिहि तुम पि त्ति जंपतो ॥ १४३५ ॥ आवेगलगोविक्केया व जो वि मदक्खमो सुगंभीरो । अक्खेवनिण्णयपसंगपारओ सो गुरू जोग्गो ॥१४३६॥ सांसो वि पहाणयरो गंताणावियारियग्गाही । सुपरिच्छियकेया इव स्थाणवियारक्खमो इहो ॥ १४३७ ॥ कस्यापि धूर्तस्योपचितसर्वाङ्गसुन्दरस्वरूपापि गौः कथमपि संस्थानीप्रदेशे स्थिता भग्ना । ततश्चोत्थातुं न शक्नोति, इत्युपविष्टव तिष्ठति । ततस्तेन धृतेन कस्यापि मुग्धस्य केतुस्तथैवोपविष्टा मूल्येन प्रदत्ताऽसौ । स्वयं पुनरपसृतः । क्रेतापि यावत् तामुत्थापयति, तावद् न शक्नोत्युत्थातुपसौ । ततस्तथैव स्थिताऽन्यस्य मूल्येन दातुमारब्धा तेनेयम् । स च दक्षत्वादुधःप्रभृत्यवयवानां निरीक्षणार्थ , गौबन्दनकन्धा चव्यौ श्रावको बधिरगोदोहः । टङ्कणको व्यवहारः प्रतिपक्ष आचार्य-शिष्ययोः ॥ १५३५ ॥ २ भननिविष्टां गां क्रीत्वा दददिव न श्रुतमाचार्यः । एवं मयापि गृहीतं गृहाण त्वमपीति जल्पन् ॥ १४३५ ।। अविकलगोवितेव योऽपि मदक्षमः सुगम्भीरः । आक्षेपनिर्णयप्रसङ्गपारकः स गुरुयोग्यः ॥ १४३६ ॥ शिष्योऽपि प्रधानतरो नैकान्तनाऽविचारितमाही । सुपरीक्षितक्रेतेव स्थानविचारक्षम इष्टः ॥ १४३०॥ ॥६१८॥
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy