________________
बृहद्वत्तिः ।
पुस्तदृष्टान्तं व्याख्यातुमाहविशेषा
'पोत्थं दिट्ठागारं दिहावयवं समत्तपजायं । जह, तह सुत्तं भासा विभासणं वत्तियं चेव ॥ १४२८ ॥ ॥६१६॥
यथा पुस्तं लेप्यं प्रथममिन्द्रादिसंबन्धिरूपस्य दृष्टाकारमात्रं भवति । ततः क्रमेण दृष्टतदवयवम् , ततोऽपि क्रमाद् निर्वर्तित RDI निःशेषतत्पर्यायं संपद्यते, तथा सूत्रमाश्रित्य भाषा, विभाषा, वार्तिकं च जघन्य-मध्यमो-त्तमव्याख्यानरूपं यथासङ्ख्यं ज्ञेयमिति ॥१४२८॥
चित्रदृष्टान्तं विवरीपुराह
कुड्डे वत्तीलिहियं वण्णुब्भिन्नं समत्तपज्जायं । जह, तह सुत्तं भासा विभासणं वत्तियं चरिमं ॥ १४२९॥
यथा किश्चिदिह मसणं धवलं कुख्यम् । तच्च प्रथमं वर्तिकाभिस्तदालेख्यरूपकाणां लिखिताकारमात्रं भवति । ततश्च वर्णकोद्भिनं संपद्यते, हरितालादिवर्णकैरुन्मीलितं गौरवर्णादिस्वरूपं भवतीत्यर्थः । ततः समस्ताः समाप्ता वा पर्याया आलेख्यधर्मा निष्पना यत्र तत् समस्तपर्यायम् , समाप्तपर्यायं वा भवति- सर्वात्मना निष्पन्नं भवतीत्यर्थः । तथाच कुड्यस्थानीय सूत्रम् । तत्र भाषा, विभाषा, वार्तिकं च चरमं तृतीयं भवतीति ।। १४२९ ।।
श्रीगृहिकोदाहरणार्थमाह
भाणे जाई-माणं गुणे य रयणाणं मुणइ सिरिघरिओ। जह, तह सुयभाणे भासगादओऽत्थरयणाणं॥१४३०॥
श्रीगृहिको भाण्डागारिकः, स च यथा कश्चिद् 'रत्नान्यत्र ताम्रकरण्डिकादिभाजने सन्ति' इत्येवं मुणतीति सोपस्कारं व्याख्येयम् । अपरस्तु तेषामेव रत्नानां जाति मानं च जानाति । अन्यस्तु ज्वरादिरोगापहर्तृत्व क्षुत्-पिपासा-श्रमापनेतृत्वादीस्तद्गुणानपि वेत्ति । अथवा, अन्यथा योज्यते- यथा श्रीगृहिकः कश्चिद् रत्नभाजने मरकतादिकां तज्जातिं जानाति, अपरस्तु माष-वल्ल-गदियाणादिकादिकं तन्मानमपि बुध्यते ; अन्यस्तु पूर्वोक्तांस्तद्गुणानपि समस्तान् वेत्ति ; तथा रत्नभाजनस्थानीये श्रुते स्तोक-बहु-बहुतरार्थवेत्तारो भाषकादयो विज्ञेया इति ॥ १४३०॥
॥६१६॥
१ पुस्तं दृष्टाकारं दृष्टावयवं समस्तपर्यायम् । यथा, तथा सूत्रं भाषा विभाषणं वार्तिकं चैव ।। १४२८ ।। २ कुल्य वर्तिलिखितं वणों जिनं समस्तपर्यायम् । बधा, तथा सूत्रं भाषा विभाषणं कार्तिकं चरमम् ।। १४२५ ॥ ३ भाजने जाति-माने गुणांश्च रत्नानां जानाति श्रीगृहिकः । यथा, तथा श्रुतभाजने भाषकादयोऽर्थरवानाम् ।। १५३०॥
JanEducationa internatil
For
and Pre
Only